पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/71

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
समाधिपादः प्रथमः

 इन्द्रियप्रनडिकाग्रहणं लौकिकप्रत्यक्षोद्भवानुवाद एव । अन्यथा हीन्द्रियनिरपेक्षस्य योगीश्वरयोर्ज्ञानस्याप्रत्यक्षता स्यात् । अस्ति हि क्लेशादिप्रतिबन्धाभावे सर्वार्थेन चित्तसत्त्वेन सर्वविषयेण युगपत्सूक्ष्मव्यवहितादिग्रहणम् । तथा चाह-‘तारकं सर्वविषयं[१] सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्’ इति । तस्मान्नावधार्यते इन्द्रियप्रनाडिकयैवेति ॥

 बाह्यवस्तूपरागादिति विपर्ययनिवृत्त्यर्थम् । विशेषावधारणप्रधानत्वेन संशयनिवृत्तिरिति ।

 तत्र केषांचित् फलं तदेव प्रमाणम् । अपरेषां तु प्रमाणादन्यत्(त्र) प्रमाणव्यक्त्यन्तरम् (रे) । यथा घटविज्ञानस्य प्रमाणस्य हानोपादानोपेक्षाबुद्धयः फलमिति ।गुणदोषतदुभय(वदभव)शून्यत्वविषयत्वादुपादानादिबुद्धीनां प्रमाणभूतघटविज्ञानादत्यन्तभेदः । ततश्चान्यविषयस्य प्रमाणस्य अन्य(प्रमेयस्य)- विषयप्रमाण(णे)व्यक्त्यन्तरं(रे) फलमिति ॥

 न हि खदिरच्छेदनस्य खदिरोपादानं तत्परित्यागो वा फलं भवितुं युक्तम् । वि(अपि)योगसम्बन्धफलत्वात् त्यागोपादानयोः । न च फलस्य फलं सम्भवति । द्वैधीभावफलव्यवहितत्वाच्च ॥

 किं च-फलस्य चेत् फलं क्रियानपेक्षाप्रसङ्गः । फलार्थं हि क्रियापेक्ष्यते । तच्चेत्फलं विनापि क्रियया फलादपि सिध्यति, (अतोह्य) ततो न ह्यनेकायासापेक्षितनिष्पत्तिक्रियामनुतिष्ठेत् । साधनान्वेषणानुपपत्तिश्च । क्रियाया अभावात् ।


अनुमाननिरूपणेोपक्रमः, ततो विपर्यंयनिरूपणशेषश्च इति क्रमः आदर्शकोशे दृश्यते । न चायं क्रमः शोभते । "अनिन्द्रियप्रनाडी पूर्वत्वात् प्रमाणान्तरत्वमभ्युपेतव्यम्" इति; दशपुटव्यवहितवाक्यद्वयस्य मिथो योजने, "न हि सम्बन्धिनावनपेक्ष्य सम्बन्धः सम्बन्धतामियात्" इति, षोडशपुटव्यवहितवाक्यद्वयस्य मिथो योजने, "स्मर्यमाणातद्वस्तुप्रतिष्ठत्वान्न प्रमाणं, स्मृत्यवसाना हि सा, यतः प्रमाणेन प्रबाध्यते । अभूतार्थादिविषयत्वात्" इति च षट्पुटव्यवहितवाक्यद्वयस्य मिथो योजने चान्वेति । यथाक्रमं प्रमाणत्रयनिरूपणं, ततो विपर्ययनिरूपणमिति च सूत्रानुसारी भाष्यानुसारी च क्रमोऽनुसृतो भवति, इति पर्यालोच्य महता प्रयासेन मातृकाग्रन्थवाक्यानां सन्निवेशविपर्यासः कृतः । तत्र सूक्ष्मेक्षिकया गुणदोषौ परिशीलनीयौ । ‘प्रनाडी" इत्यादेरधः अङ्किताः (२०-२५-३४) इति पुटसङ्ख्याः मुद्रितैतत्कोशानुसारिण्यः ।।

  1. 3-पा.सू-54.