पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/161

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
समाधिपादः प्रथमः


[ सूत्रम् ]

ता एव सबीजः समाधिः ॥ ४६ ॥

[ भाष्यम्]

 ताश्चतस्रः समापत्तयः बहिर्वस्तुबीजा इति समाधिरपि सबीजः । तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचारः, इति चतुर्धोपसंख्यातः समाधिरिति ॥ ४६ ॥

[ सूत्रम् ]

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥

[ भाष्यम् ]

 अशुद्धयावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रजस्तमोभ्या मनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेः वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमानुरोधी१' स्फुटः प्रज्ञाऽऽलोकः ।

[ विवरणम् ]

 ता एव सबीजः समाधिः । चतस्रः समापत्तयो बहिर्वस्तुविषया इति बहिर्वस्तुविषयत्वं हेतुः सबीजत्वे । समाधिरपि सबीजः सम्प्रज्ञातो वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः' इत्युपव्याख्यातः । स्थूलेऽथें सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चोपव्याख्यातः वितर्कादिलक्षणसूत्रेण ॥ ४६ ॥

 निर्विचारंवैशारद्येऽध्यात्मप्रसादः। अशुद्धयावरणमलापेतस्य अशुद्धिरेवावरणं तदेव मलं क्लेशादिकं तस्मादपेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्। यदा निर्विचारस्य समाधेर्वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्मप्रसादः आत्मादि ज्ञानविवेकः । अस्यैव व्याख्यानं भूतार्थविषयः १'क्रमानुरोधी परिपाठिकया यावत्क्लेशक्षयमनुरुद्धयत इति क्रमानुरोधी स्फुटं विविक्ततरं शुद्धतरात्मक: प्रज्ञालोकः प्रज्ञैवालोकः तया हि यथावस्तु जानाति ॥

1. क्रमाननुरोधी, इति वाचस्पत्यभिमतः पाठः॥

 15