पृष्ठम्:साहित्यसारः.pdf/65

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
साहित्यसारे


रसानां पुनरन्येषामङ्गत्वं पतिपाद्यताम् ।
भोजनस्नानसुरतवधसंरोधसङ्करान् ॥ १० ॥

विवाहं दूरगमनं देशराज्याद्युपप्लवान् ।
गन्धमाल्याम्बरादीनि प्रत्यक्षाणि न निर्दिशेत् ॥ ११ ॥

द्वित्राणामेव पात्राणामेकदैवागमो भवेत् ।
सर्वेषां निर्गमे जाते संभवेन्नेतृनिर्गमः ।। १२ ।।

           प्रकरणलक्षणम्

ततः प्रकरणे वस्तु वक्तव्यं स्वमनीषया !
लोकवार्ता स्वयं हृद्यं व्यवहारक्रमोचितम् ॥ १३ ॥

सचिवद्विजवैश्यानामेक एव हि नायकः ।
धीरप्रशान्तस्सोपायो धर्मकामार्थतत्परः ॥ १४ ॥

द्विविधा नायिका तत्र कुलस्त्री गणिका तथा ।
क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित् ॥ १५ ।

अभ्यन्तरस्था कुलजा वेश्या बाह्यैव सर्वदा।
शुद्धं शुद्धेतरं तद्वत् संकीर्णमिति तत्रिधा ॥ १६ ॥

शुद्धं कुलस्त्रियायुक्तमितरद्गणिकाश्रितम् ।
आभ्यां सङ्कीर्णकं धूर्तविटचेटीजनाश्रितम् ।। १७ ।।

शेषं नाटकक्त्सन्धिप्रवेशकरसादिकम् ।
            
              नाटिकालक्षणम्

अत्रैव वर्तते सापि नाटिका नाटकोद्भवा ।। १८ ।।

तत्र प्रकरणाद्वस्तु नाटकाxपि किञ्चन ।
नायको ललितः ख्यातः कामभोगैकनिष्ठितः ॥ १९ ।।