पृष्ठम्:साहित्यसारः.pdf/69

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
साहित्यसारे

नाडिकाघटिकायुग्ममितिं सर्वजनश्रुतिः ।
वस्तुस्वभावा दैवारिकृताः स्युः कपटास्त्रयः ॥ ४९ ॥

देशोपरोधसंग्रामवहिभ्यो विद्रवास्त्रय: ।
धर्मार्थकामैः शृङ्गारो नात्र बिन्दुप्रवेशकौ ॥ ५० ॥

वीथ्यङ्गानि यथाकार्म सोपहासानि कल्पयेत् ।

         उत्सृष्टिकाङ्कम्

उत्सृष्टिकेति विख्यातं वस्तु बुद्धया प्रपञ्चयेत् ।। ५१

करुणाख्यो रसः स्थायी नेतारः पूर्वकल्पिताः ।
सन्धिसन्ध्यङ्गवृत्त्यङ्गैः भाणवत्परिकल्पयेत् ॥ ५२ ||

स्त्रीणामालापसल्लापविलापादिभिराकुल: ।
वाचा विधेयस्संग्रामो वचसैव जयाजयौ ॥ ५३ ॥

            प्रहसनम्

ततः प्रहसनं प्रायः कल्पयेद्बुद्धिवैभवैः ।
शुद्धं सविकृतं तद्वत् सङ्कीर्णमिति तत्तूिधा ॥ ५४ ।।

द्विजपापण्डिदुर्वर्णिचेटचेटीविटावृतम् ।
वेषभाषाविभूषाद्यैः शुद्धं हासकृतं भवेत् ॥ ५५ ॥

कामुकैरतिवाचाटैश्वण्डदुष्पण्डितादिभिः ।
जरत्कञ्चुकिनिर्गन्धतापसैर्विकृतं स्मृतम् ॥ ५६ ॥

धूर्तकापालिकमात्यचोरसंवाहकादिभिः ।
वीथ्यङ्कैरन्तराकीर्णं सङ्कीर्णमिति कथ्यते ।। ५७ ॥