पृष्ठम्:साहित्यसारः.pdf/46

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
चतुर्थ: प्रकाशः


नैव भेदोऽनुकूलस्य स्थिरैकदयितास्थितेः ।
ज्येष्ठमध्यकनिष्ठत्वसंपादनविधिक्रमात् ॥ ५३ ।।
अष्टाधिकं पुनस्तेऽपि चत्वारिंशद्भवन्ति च ।

             पारुषा गुणाः

शोभा विलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ॥ ५४ ॥

ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ।
दीनेषु करुणा स्पर्धा गुणाढ्येषु पराक्रमे ।। ५५ ।।

दक्षता शास्त्रविषये शोभेतेि वेिदुषां मता ।
गतिर्गभीरा दृष्टिश्च सगर्वा सस्मितं वचः ।। ५६ ।।

विलासस्सत्त्वसंपन्नः पुरुषस्य निगद्यते ।
मनोविकारो माधुर्यं संक्षोभे सुमहत्यपि ।। ५७ ।।

विकारहेतावुत्पन्ने गाम्भीर्यं निर्विकारता ।
व्यवसायादचलनं विन्नैरत्यर्थमांकुकात् ॥ ५८ ॥

नेतुरुत्तमभावस्य स्थैर्यमाहुर्मनीषिणः ।
अधिक्षेपादिदोषणां कृतानामहितैर्जनैः ॥ ५९ ॥

सद्यस्स्वप्राणनाशेऽपि तेजस्वदसहिष्णुता ।
शृङ्गाराकारचेष्टावन्मृदुत्वं ललेितं विदुः ।। ६० ॥

औदार्यं प्राणदानादिः परस्योज्जीवनेच्छया ।

             तत्सहायाः
  
तत्सहायः पीठमर्दस्तया विटविदूषकौ ॥ ६१ ॥

किञ्चिदूनगुणस्तस्मात् पताकानायको महान् । ।
सर्वविद्यासु निपुणः पीठमर्दोऽनिषीयते ॥ ६२ ॥