भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ११

विकिस्रोतः तः

तन्त्रात्मकप्रतिष्ठावर्णनम्

।। ।। सूत उवाच ।। ।।
अथ तंत्रविधिं वक्ष्ये पुराणेष्वपि गीयते ।।
तन्त्रे चैव प्रतिष्ठां च कुर्यात्पुण्यतमेऽहनि।।१।।
शतवृक्षक्षुद्रवृक्षे दशद्वादश वृक्षके ।।
दृष्टिमात्रांतरे सेतौ कूपयागे समुत्सृजेत् ।।२।।
न कूपमुत्सृजेज्जातु वृक्षयागे कथंचन ।।
तुलसीवनयागे तु न चान्यं यागमाचरेत् ।। ३ ।।।
तडागयागे सेत्वादीन्न चारामे कदाचन ।।
न सेतुं देवयागे तु तडागं न समुत्सृजेत् ।।४।।
तंत्रे श्राद्धं पृथङ्नास्ति कर्तुर्भेदे पृथग्भवेत् ।।
शिवलिंगस्थापनायां न चान्यद्देवस्थापनम् ।।५।।
स्वदेशे वर्जयेत्तं तं स्वतन्त्रेण विधीयते ।।
विपरीते कृते चापि आयुःक्षय इति स्मृतिः ।।६।।
तडागे पुष्करिण्या वा आरामेऽपि द्विजोत्तमाः ।।
मानहीने मानपूर्णे दशहस्ते न दूषणम्।।७।।
द्विसहस्राधिकं यत्र तत्प्रतिष्ठां समाचरेत्।।
दश द्वादशवृक्षे च आरामे पूर्ववद्द्विजाः ।।८।।
प्रतिष्ठां बिल्ववृक्षे च अन्यथा कर्णवेधनम् ।।
कुर्याद्दोहददानं च तत्र निर्मंथनादिकम् ।।९।।
अनंतरं प्रदातव्या लाजा मूर्ध्न्यक्षतादिकम् ।। 2.1.11.१० ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि पूर्वभागे एकादशोऽध्यायः ।। ११ ।।