आपस्तम्ब-श्रौतसूत्रम्/प्रश्नः ११

विकिस्रोतः तः

अग्निष्टोम प्रातःसवनम्

आतिथ्याया ध्रौवात्स्रुचि चमसे वा तानूनप्त्रं समवद्यति । चतुरवत्तं पञ्चावत्तं वा । आपतये त्वा गृह्णामीत्येतैः प्रतिमन्त्रम् १ 11.1.1
अनाधृष्टमसीति यजमानसप्तदशा ऋत्विजस्तानूनप्त्रं समवमृशन्ति २
अनु मे दीक्षामिति यजमानः ३
यं कामयेत यज्ञयशसमृच्छेदिति तं प्रथमम् । यदि कामयेत सर्वानिति सर्वान्सहावमर्शयेत् ४
तस्माद्यः सतानूनप्त्रिणामित्युक्तम् ५
प्रजापतौ त्वा मनसि जुहोमीति यजमानस्तानूनप्त्रं त्रिरवजिघ्रति ६
अन्वहं वा व्रतेष्वपिनयति ७
अग्नीन्मदन्त्यापा इति पृच्छति ८
मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः प्रत्याह ९
ताभिरेहीति संप्रेष्यति १०
मदन्तीरुपस्पृश्य तानूनप्त्रिणो विस्रस्य राजानं सहिरण्यैः पाणिभिराप्याययन्त्यंशुरंशुस्ते देव सोमाप्यायतामिति ११
अथ निह्नुवते । दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणान्पाणीनुत्तानान्कृत्वा सव्यान्नीच एष्टा रायः प्रेषे भगायेति १२
अथ यजमानोऽवान्तरदीक्षामुपैति १३
अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसीत्याहवनीयमुपतिष्ठते १४
एतेनैवास्मिन्समिधमादधातीति वाजसनेयकम् १५
इति प्रथमा कण्डिका

संतरां मेखलां समायच्छते । संतरां मुष्टी कर्षते १ 11.2.1
तप्तव्रतो भवति २
मदन्तीभिर्मार्जयते ३
या ते अग्ने रुद्रिया तनूरित्येतेनैवात ऊर्ध्वं व्रतयति ४
प्रवर्ग्येण प्रचर्योपसदा चरन्ति । एतद्वा विपरीतम् ५
न प्रथमयज्ञे प्रवृञ्ज्यात् ६
प्रवृञ्ज्याद्वा ७
प्रवृञ्ज्याद्दुर्ब्राह्मणस्य ८
ब्रह्मवर्चसकामस्येत्येके ९
योऽनूचानः श्रोत्रियस्तस्य प्रवृञ्ज्यादिति बह्वृचब्राह्मणम् १०
आतिथ्याबर्हिरुपसदामग्नीषोमीयस्य च । तदेव प्रस्तरपरिधि ११
तत्स्तीर्णं बर्हिस्तत्परिधिताः परिधय इत्येके १२
उपसदस्तन्त्रं प्रक्रमयति १३
प्राकृत इध्मो दशदारुर्वा १४
वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रति
पद्यते । यथार्थं पात्राणि प्रयुनक्ति १५
स्फ्यमग्निहोत्रहवणीं स्रुवं जुहूमुपभृतं ध्रुवां वेदमाज्यस्थालीमिति द्वन्द्वं प्रयुज्य पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति १६
वाग्यतः पात्राणि संमृश्य प्रोक्षणीः संस्कृत्य ब्रह्मा
णमामन्त्र्य पात्राणि प्रोक्षति १७
अत्र वाचं विसृजते १८
स्फ्यमादाय १९
इति द्वितीया कण्डिका

लोमभ्योऽधि स्तम्बयजुर्हृत्वोत्तरं परिग्राहं परिगृह्य संप्रेष्यति प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहीति १ 11.3.1
आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षणीशेषं निनीय पवित्रे अपिसृज्यैकामाघारसमिधमाधायान्तर्वेदि विधृती निधाय ध्रुवां स्रुवं च सादयति । एतावसदतामिति मन्त्रं संनमति २
वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ३
नव सामिधेनीरन्वाह ४
तिस्र ऋचस्त्रिरनूक्ता भवन्ति । नव वा पराचीः ५
नान्यामाहुतिं पुरस्ताज्जुहुयात् । स्रौवमेवाघारयेत् ६
समानमा प्रवरात् ७
नार्षेयं वृणीते न होतारम् । आश्राव्याह सीद होतरिति । एतावान्प्रवरः ८
ध्रौवादष्टौ जुह्वां गृह्णाति । चतुरुपभृति ९
घृतवति शब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्त उपांशुयाजवत्प्रचरति १०
अर्धेन जौहवस्याग्निं यजति । अर्धेन सोमम् ११
औपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति १२
अग्नीन्मदन्त्यापा३
इत्येतदाद्या निह्नवात्कृत्वाग्नी
द्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १३
अपरेण गार्हपत्यमाग्नीध्र उपविश्य देवपत्नीर्व्याचष्टे सेनेन्द्रस्य धेनेति । उत्करे सुब्रह्मण्यामाह्वयति । पूर्ववदेनां यजमानोऽनुमन्त्रयते १४
इति तृतीया कण्डिका इति प्रथमः पटलः

सुपूर्वाह्ने पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । स्वपराह्ण आपराह्णिकीभ्याम् १ 11.4.1
सव्योत्तानैस्तु सायं निह्नवः २
एषा प्रथमा ३
एवमुत्तराभ्यां चर्या ४
रजाशयां द्वितीयायां जुहोति । हराशयां तृतीयायाम् ५
याः प्रातर्याज्या इत्युक्तम् ६
तिस्र एव साह्नस्योपसदः । द्वादशाहीनस्य ७
यदि संग्रामं पुरो वा युध्येयुरयः प्रथमायामवधाय जुहुयात् । रजतं द्वितीयायाम् । हरितमुत्तमायाम् ८
आराग्रामिति स्तनकल्पः ९
यदहः सोमं क्रीणीयुश्चतुरः सायं दुह्युस्त्रीन्प्रातर्द्वौ सायमेकमुत्तमे । सर्वान्सायमाशिरे १०
अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदि कुर्वन्ति ११
प्राग्वंशस्य मध्यमाल्ललाटिकात्त्रीन्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति १२
तस्मात्पञ्चदशसु दक्षिणतः । एवमुत्तरतः । ते श्रोणी । प्रथमनिहताच्छङ्कोः षट्त्रिंशतिः पुरस्तात् । तस्माद्द्वादशसु दक्षिणतः । एवमुत्तरतः । तावंसौ १३
विमिमे त्वा पयस्वतीं देवानां धेनुं सुदुघामनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु क्षेमो अस्तु न इति विमानः १४
सर्वतः स्यन्द्यया पर्यातनोति १५
मध्ये पृष्ट्याम् १६
इति चतुर्थी कण्डिका

इमां नरः कृणुत वेदिमेत्य वसुमतीं रुद्रवतीमादित्यवतीं वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येद्देवस्य सवितुः सव इति संप्रेष्यति १ 11.5.1
स्फ्येन विघनेन पर्श्वा परशुना च वेदिं कुर्वन्ति २
दर्शपूर्णमासवत्संनमनवर्जं प्रागुत्तरात्परिग्राहात्कृत्वा चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये । तस्यां सुपर्णावधि यौ निविष्टौ तयोर्देवानामधि भागधेयमित्यभिमन्त्र्य ३
चात्वालाद्द्वादशसु प्रक्रमेषु प्रत्यगुत्करः । तावत्ये
वाध्वन्युदग्यथा चात्वालः ४
व्याख्यातश्चात्वाल उत्तरवेदिश्च ५
उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छन्ना वसति ६
श्वोभूत उत्तमे प्रवर्ग्योपसदौ प्रतिसमस्यति ७
पौर्वाह्णिकीभ्यां प्रचर्य तदानीमेवापराह्णिकीभ्याम् ८
अत्र प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयति ९
एष सोमस्याहवनीयः । यतः प्रणयति स गार्हपत्यः १०
अग्निवत्युत्तरं परिग्राहं परिगृह्णाति ११
अत्र प्रतिप्रस्थाता शाखामाहृत्य मैत्रावरुण्याः पयस्याया वत्सानपाकरोति १२
इति पञ्चमी कण्डिका इति द्वितीयः पटलः

प्रोक्ष्य बर्हिस्त्रिर्वेदिं प्रोक्षति १ 11.6.1
नाप्रोक्षितामभिचरन्ति २
अथैनां बर्हिषा बहुलं प्राचीनं स्तीर्त्वा प्रयुक्तपूर्वे शकटे नद्धयुगे प्रतिहतशम्ये प्रक्षाल्य तयोः प्रथमग्रथितान्ग्रन्थीन्विस्रस्य नवान्प्रज्ञातान्कृत्वाग्रेण प्राग्वंशमभितः पृष्ठ्यामव्यवनयन्परिश्रिते सच्छदिषी अवस्थापयति ३
अथैने पत्नी पदतृतीयेनाज्यमिश्रेणोपानक्ति ४
आ नो वीरो जायतामिति द्विर्दक्षिणामक्षधुरं दक्षिणेन हस्तेनोत्तानेन प्राचीनम् ५
न च हस्तमावर्तयति ६
एवमितराम् ७
सकृद्वा ८
तथोत्तरस्य हविर्धानस्योपानक्ति ९
युञ्जते मन इति सावित्रियर्चौत्तरवेदिके हुत्वा हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति संप्रेष्यति । प्रवर्त्यमानाभ्यामनुब्रूहीति वा १०
प्रथमायां त्रिरनूक्तायां प्राची प्रेतमध्वरमित्युद्गृह्णन्तः प्रवर्तयन्ति ११
स्याच्चेदक्षशब्दः सुवागित्यनुमन्त्रयेत १२
दक्षिणस्य हविर्धानस्य वर्त्मनि वर्त्मनोर्वा हिरण्यं निधायेदं विष्णुर्विचक्रम इत्यध्वर्युर्हिरण्ये जुहोति १३
एवमुत्तरस्य प्रतिप्रस्थाता १४
इति षष्ठी कण्डिका

इरावती धेनुमती इति जुहोति १ 11.7.1
अप जन्यं भयं नुदाप चक्राणि वर्तय । गृहं सोमस्य गच्छतमिति वितृतीयदेशे वेद्या अध्वर्युर्होता ब्रह्मा मैत्रावरुणो वा पदापनुदति । लोष्टं वा बहिर्वेदि निरस्यति २
आहवनीयात्त्रीन्प्रतीचः प्रक्रमानुच्छिष्यात्र रमेथामिति नभ्यस्थे स्थापयित्वा वैष्णवमसि विष्णुस्त्वोत्तभ्नात्वित्युपस्तभ्य दिवो वा विष्णवित्यध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दमनु मेथीं निहन्ति । तस्यामीषां निनह्यति ३
एवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नु कमित्युत्तरम् कर्णातर्दमनु ४
ऊर्ध्वाः शम्या उद्वृह्योपरिष्टात्परिवेष्टयन्ति ५
उत्ताना हि देवगवा वहन्तीति विज्ञायते ६
महो वा विष्णविति सर्वतः स्थूणाः परिमिनोति ७
पुरस्ताच्चान्तः खरायावकाशं शिष्ट्वा ८
उदञ्चौ वंशावत्यादधाति पश्चात्पुरस्ताच्च ९
समानं सांकाशिनं शालामुखीयहोत्रीयौत्तरवेदिकानाम् १०
इति सप्तमी कण्डिका

विष्णो रराटमसीति पुरस्ताद्रराट्यां तिर्यञ्चं वंशं धारयन्विष्णोः स्यूरसीति स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वा प्राचो वंशानत्याधाय विष्णोः
पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति त्र्यरत्निविस्तारं नवायामम् १ 11.8.1
तूष्णीमितरे छदिषी अध्यूह्य कटांस्तेजनीरिति छद्यन्तरालेषु प्रवर्तमुपास्यति २
तेऽन्तर्वर्ता भवन्ति ३
परि त्वा गिर्वणो गिर इति सर्वतः परिश्रित्य विष्णोः
श्नप्त्रे स्थ इति रराट्या अंतौ व्यस्यति । संमृशतीत्येके ४
विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणां द्वार्बाहुं स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं करोति ५
ग्रन्थिकरणमेके पूर्वं समामनन्ति ६
यं प्रथमं ग्रन्थिं ग्रथ्नीयादित्युक्तम् ७
एवमुत्तरां म्प्रतिप्रस्थाता ८
एवमपरे सीव्यतः ९
पुरस्तादुन्नतं पश्चान्निनतं हविर्धानम् १०
वैष्णवमसि विष्णवे त्वेति संमितमभिमृशति ११
इत्यष्टमी कण्डिका इति तृतीयः पटलः

प्र तद्विष्णु स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेति संमितात्प्राङ् यजमानो निष्क्रम्याहवनीयात्त्रीन्प्राचः प्रक्रमान्प्रक्रामति यस्योरुष्विति १ 11.9.1
नाध्वर्युः प्राङ् हविर्धाने अतीयात् २
अतीयाच्चेद्वैष्णव्यर्चा संचरेत् ३
षट्सु प्रक्रमेषूत्करात्प्रत्यगाग्नीध्रं मिनोति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि । प्राचीनवंशं चतुःस्थूणं सर्वतः परिश्रितं दक्षिणतऽउपचारम् ४
अपरस्माद्वेद्यन्तात्त्रिषु पुरस्तात्प्रक्रमेषु तिर्यक् सदो मिनोति ५
अक्ष्णया द्वेष्यस्य ६
नवारत्निविस्तारं सप्तविंशतिरुदगायतम् । अपरिमितं वा ७
यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्य आप्तं मन्येतेत्यपरम् ८
दक्षिणतः प्रक्रमे पृष्ठ्याया औदुम्बरीं मध्ये सदसो मिनोति ९
दक्षिणा सदः प्रति कर्षेद्यथा सांकाशिनस्याविरोधं स्यात् १०
यूपवदौदुम्बर्या अवटसंस्कारः शकलवर्जम् ११
अग्रेणावटं प्राचीं निधाय तूष्णीं प्रक्षाल्याथैनां यवमतीभिः प्रोक्षति । दिवे त्वेत्यग्रम् । अन्तरिक्षाय त्वेति मध्यम् । पृथिव्यै त्वेति मूलम् १२
उद्दिवं स्तभानान्तरिक्षं पृणेति प्राचीनकर्णां सहोद्गात्रोच्छ्रयति । उच्छ्रयस्व वनस्पते सजूर्देवेन बर्हिषेति वा १३
इति नवमी कण्डिका

द्युतानस्त्वा मारुतो मिनोत्विति प्राचीनकर्णां सहोद्गात्रा मिनोति १ 11.10.1
ऊर्ध्वं निखाताद्यजमानसंमिता २
पर्यूहणपरिदृंहणपरिषेचनानि यूपवत् ३
तस्या विशाखे हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेथामिति स्रुवेण हिरण्ये जुह्वदान्तमौदुम्बरीमन्ववस्रावयति ४
एषा सदसः स्थूणानां वर्षिष्ठा ५
नाभिदघ्न्यः पर्यन्तीयाः ६
नीचैः सदो मिनुयाद्वृष्टिकामस्य । उच्चैरवृष्टिकामस्येत्येके ७
उदञ्चः प्राचश्च वंशानत्याधायैन्द्रमसीति तेषु मध्यमानि त्रीणि छदींष्यध्यूहति ८
विश्वजनस्य छायेति त्रीणि दक्षिणानि । इन्द्रस्य सदोऽसीति त्रीण्युत्तराणि ९
दक्षिणान्युत्तराणि चौदुम्बरीमभ्यग्राणि भवन्ति १०
दक्षिणान्युत्तराणि करोतीति विज्ञायते ११
नवच्छदीति काम्यानि १२
नवाग्निष्टोमे । पञ्चदशोक्थ्ये । षोडश षोडशिनि । सप्तदश वाजपेये ऽतिरात्रे च । एकविंशतिः सत्त्राहीनानाम् १३
अन्तर्वर्ताः परिश्रयणं सांकाशिनं द्वाराविति हविर्धानवत् १४
इन्द्रस्य स्यूरसीति सीव्यति । इन्द्रस्य ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वैन्द्रमसीन्द्राय त्वेति संमितमभिमृशति १५
नाध्वर्युः प्रत्यङ् सदोऽतीयात् । धिष्णियान्होतारं वा १६
यद्यतीयादैन्द्रियर्चा संचरेत् । आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखेति स्तरणीमेतामेके समामनन्ति १७
क्षैत्रपत्या वा संचरेत् १८
उपरवकर्मैके पुर्वं समामनन्ति । सदःकर्मैके १९
इति दशमी कण्डिका इति चतुर्थः पटलः

दक्षिणस्य हविर्धानस्याधस्तात्पुरोऽक्षं चतुर उपरवानवान्तरदेशेषु प्रादेशमुखान्प्रादेशान्तरालान्करोति १ 11.11.1
देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादाय परिलिखितं रक्षः परिलिखिता अरातय इति त्रिर्दक्षिणपूर्वं परिलिखति २
एवमितरान्प्रदक्षिणमुत्तरापवर्गम् ३
एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ४
अधस्तात्संतृणा भवन्ति । उपरिष्टादसंभिन्नाः ५
तूष्णीं बाहुमात्रान्खात्वा रक्षोहणो वलगहनो वैष्णवान्खनामीति खनति ६
एकवदुपरवमन्त्रानेके समामनन्ति ७
विराडसीति बाहुमुपावहृत्येदमहं तं वलगमुद्वपामीत्युदुप्योपरवन्यन्तेऽवबाधते गायत्रेण छन्दसावबाढो वलग इति ८
हरामि वैष्णवानिति हरति । अवबाढो दुरस्युरित्यग्रेणोपस्तम्भनं निवपति ९
एवं सर्वान्करोति १०
एतावन्नाना । पूर्वेणपूर्वेण मन्त्रेण बाहुमुपावहृत्योत्तरेणोत्तरेण छन्दसावबाधते ११
गायत्रं त्रैष्टुभं जागतमानुष्टुभं पाङ्क्तमित्याम्नातानि भवन्ति १२
इत्येकादशी कण्डिका

प्रथमं वा सर्वेषु १ 11.12.1
विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणां हन्तेति बाहू उपावहरतोऽध्वर्युर्यजमानश्च २
संमृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषोयवनः । युयोध्यस्मद्द्वेषांसि यानि कानि च यकृम । देवानामिदं निहितं यदस्तथाभाहि प्रदिशश्चतस्रः । कृण्वानो अन्याँ अधरान्सपत्नानित्युपरवान्संमृश्य दक्षिणपूर्वं यजमानोऽवमृशति । उत्तरापरमध्वर्युः ३
अथ यजमानः पृच्छत्यध्वर्यो किमत्रेति । भद्रमितीतरः प्रत्याह । तन्नौ सहेत्युक्त्वोत्तरपूर्वं यजमानोऽवमृशति । दक्षिणापरमध्वर्युः । तथैव प्रश्नः प्रतिवचनं च । तन्म इत्याह यजमानः ४
रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति यव
मतीभिरुपरवान्प्रोक्ष्योत्तरैर्मन्त्रैरवनयामीति प्रोक्षणीशेषमवटेऽवनीय यवोऽ सीति यवमवास्यावस्तृणामीति बर्हिषावस्तीर्याभिजुहोमीत्याज्येनाभिजुहोति ५
एवं सर्वान्करोति ६
रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी इत्यधिषवणफलके प्रोक्षति ७
इति द्वादशी कण्डिका

औदुम्बरे कार्ष्मर्यमये पालाशे वा शुष्के तष्टे प्रधिमुखे पुरस्तात्समाविकर्ते पश्चात् १ 11.13.1
न संतृणत्त्येकाहे । तत ऊर्ध्वं संतृद्ये २
उक्थ्यादिषु वा संतृणत्ति ३
अथैने उपरवेषूपदधाति रक्षोहणौ वलगहनावुपदधामि वैष्णवी इति ४
द्वौ दक्षिणेनापिदधाति । द्वावुत्तरेण ५
संहिते पुरस्ताद्द्व्यङ्गुलेन पश्चादसंहिते भवतः ६
अथैने उत्तरैर्मन्त्रैः पर्यूहामीति प्रदक्षिणमुपरवपांसुभिः पर्युह्य परिस्तृणामीति बर्हिषा परिस्तीर्योत्तमेनाभिमन्त्रयते ७
एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमुपरवपांसुभिश्चतुरश्रं खरं करोति सोमपात्रेभ्य आप्तम् ८
पुरस्तात्संचरं शिनष्टि ९
अन्तरा चात्वालोत्करावाग्नीध्रचात्वालौ वाध्वर्युर्दृशीकवश्च संचरेयुः १०
सर्वतः ह्प्रसुते दृशीकवः संचरेयुरित्येके ११
इति त्रयोदशी कण्डिका इति पञ्चमः पटलः

चात्वालाद्धिष्णियानुपवपति १ 11.14.1
अन्तराग्नीध्र आग्नीध्रीयमुत्तरे वेद्यन्त उत्तरतः संचरं शिष्ट्वा २
सदसीतरान्पूर्वार्धे पुरस्तात्संचरं शिष्ट्वा ३
पृष्ठ्यायां होत्रीयम् । तं दक्षिणेन प्रशास्त्रीयम् ४
उत्तरेण होत्रीयमितरानुदीच आयातयति । ब्राह्मणाच्छंसिनः पोतुर्नेष्टुरच्छावाकस्येति ५
बहिः सदसो मार्जालीयं दक्षिणे वेद्यन्ते दक्षिणतः संचरं शिष्ट्वा सममाग्नीध्रीयेण ६
विभूरसीत्यष्टाभिः प्रतिमन्त्रम् ७
एतानेवोपस्थानान्व्याघारणांश्चैके समामनन्ति ८
अनुदिशतीतरानध्वनामध्वपते नमस्ते अस्तु मा मा हिंसीरिति तंतमभिक्रामम् ९
सम्राडसि कृशानुरित्याहवनीयम् । परिषद्योऽसि पवमान इति बहिष्पवमानास्तावम् । प्रतक्वासि नभस्वानिति चात्वालम् । असंमृष्टो ऽसि हव्यसूद इति शामित्रम् । समूह्योऽसि विश्वभरा इत्युत्करम् । ऋत
धामासि सुवर्ज्योतिरित्यौदुम्बरीम् १०
इति चतुर्दशी कण्डिका

ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्माणम् । सदस्योऽसि मलिम्लुच इति सदस्यम् । समुद्रोऽसि विश्वभरा इति सदः । अजोऽस्येकपादिति शालामुखीयम्[१] । अहिरसि बुध्निय इति प्राजहितम्[२] । कव्योऽसि कव्यवाहन इति दक्षिणाग्निम् । आयुर्बृहत्तदशीय तन्मावतु तस्य नाम्ना वृश्चामि यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मः । विश्वायुर्वामदेव्यं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । आयुःपति रथंतरं तदशीय तन्मावतु तस्य नाम्ना वृश्चामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्येतैश्च प्रतिमन्त्रं हविर्धानाग्नीध्रसदांसीति 11.15.१
रौद्रेणानीकेनेति सर्वत्रानुषजति २
स्तृणीत बर्हिः प्र व्रतं यच्छतेति संप्रेष्यति ३
पूर्वस्मिन्वा स्तरण एतं संप्रैषं ब्रूयात् ४
अत्र स्तृणन्नुत्तरवेदिखरोपरवधिष्णियान्नाभिस्तृणीयात् ५
अत्रैकस्तनं व्रतं यजमानाय प्रयच्छति ६
अर्धव्रतमत्र वाजसनेयिनः समामनन्ति । अर्धमन्तरेणोत्तमे प्रवर्ग्योपसदौ ७
इति पञ्चदशी कण्डिका इति षष्ठः पटलः

अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति १ 11.16.1
तस्य निरूढपशुबन्धवत्कल्पः २
षड्ढोता पश्विष्टिश्चाङ्गभूतेषु न विद्यते ३
आतिथ्याबर्हिस्तूष्णीमुपसंनह्यति ४
तांश्च परिधीन्पाशुक इध्मे ५
पात्रसंसादनकाले प्रचरणीं स्रुचं सप्तमीं प्रयुनक्ति ६
तस्या जुहूवत्कल्पः ७
आज्यग्रहणकाले प्रचरण्यामादितस्तूष्णीं चतुर्गृहीतं गृहीत्वा पाशुकान्याज्यानि गृह्णाति ८
प्रैतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति ९
अथाहमनुकामिनीति पत्नी शालामुखीयमुपोपविश्य सुप्रजसस्त्वा वयमिति जपति १०
उपस्थे ब्रह्मा राजानं कुरुते ११
समपिव्रतान्ह्वयध्वमिति संप्रेष्यति १२
यजमानस्यामात्यान्संह्वयन्ति १३
अध्वर्युं यजमानोऽन्वारभते । यजमानं पत्नी । पत्नीमितरे पुत्रभ्रातरः १४
अहतेन वाससामात्यान्संप्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनियम्य प्रचरण्या वैसर्जनानि जुहोति १५
त्वं सोम तनूकृद्भ्यो जुषाण इत्येताभ्यामर्धं गार्हपत्ये १६
आ सोमं ददते १७
इति षोडशी कण्डिका

आ ग्राव्ण आ वायव्यान्या द्रोणकलशम् । उत्पत्नीमानयन्ति । अन्वनांसि प्रवर्तयन्ति यायावरस्य यान्यपरस्मिन्गार्हपत्ये भवन्ति । अजमनुनयन्ति । इध्माबर्हिराज्यानि प्रोक्षणीरित्यनुहरन्ति १ 11.17.1
शालामुखीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्याग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति संप्रेष्यति । प्रणीयमानाभ्यामनुब्रूहीति वा २
प्रथमायां त्रिरनूक्तायामयं नो अग्निर्वरिवः कृणोत्वित्यग्निप्रथमाः सोमप्रथमा वा प्राञ्चोऽभिप्रव्रजन्ति ३
आग्नीध्रीयेऽग्निं प्रतिष्ठाप्याग्ने नयेत्यर्धमाज्यशेषस्य जुहोति ४
ग्राव्णो वायव्यानि द्रोणकलशमाग्नीध्र उपवासयति ५
उत्तरेणाग्नीध्रीयमाहवनीयं गत्वोरु विष्णो विक्रमस्वेति सर्वमाज्यशेषं जुहोति ६
हुतेऽमात्याः प्रदक्षिणमावृत्य यथेतमुपावर्तन्ते ७
सोमा जिगाति गातुविदित्यपरया द्वारा हविर्धानं राजानं प्रपादयति । पूर्वया गतश्रियः ८
पूर्वया यजमानः प्रपद्यते ९
दक्षिणस्य हविर्धानस्य नीडे पूर्ववत्कृष्णाजिनास्तरणं राज्ञश्चासादनम् १०
इति सप्तदशी कण्डिका

अथैनं यजमानो देवताभ्यः संप्रयच्छत्येष वो देव सवितः सोम इति १ 11.18.1
एतत्त्वं सोम देवो देवानुपागा इत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य नमो देवेभ्य इति प्राचीनमञ्जलिं कृत्वा स्वधा पितृभ्य इति दक्षिणेदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते । सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिरित्याहवनीयम् २
अत्र यजमानोऽवान्तरदीक्षां विसृजते ३
अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसीत्याहवनीयमुपतिष्ठते । एतेनैवास्मिन्समिधमादधातीति वाज
सनेयकम् ४
वितरां मेखलां विस्रंसते । वितरां मुष्टी कर्षते ५
अत्र दण्डप्रदानमेके समामनन्ति ६
[३]स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्यां स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति मुष्टी विसृजते ७
स्वाहा वा विवाते विसृज इति वाचम् ८
निवर्तते व्रतम् ९
सोमान्हविःशेषानिति सुत्येऽहनि भक्षयति १०
उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति ।
दक्षिणमिध्ममुत्तरं बर्हिः ११
इत्यष्टादशी कण्डिका

प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते १ 11.19.1
स्तरणकालेऽपरेणोत्तरवेदिं बर्हिः स्तृणाति २
स्तरणमन्त्रोऽभ्यावर्तते ३
आज्यानां सादनादि पाशुकं कर्म प्रतिपद्यते समानमा प्रवरात् ४
दैवं च मानुषं च होतारौ वृत्वाश्रावमाश्रावमृतुप्रैषादिभिः सौमिकानृत्विजो वृणीते ५
अपिसृज्य तृणमस्फ्य उत्तरान् ७
अग्निमाग्नीध्रादित्याग्नीध्रम् । अश्विनाध्वर्यू आध्वर्यवादित्यध्वर्यू । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति मैत्रावरुणम् । इन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छंसिनम् । मरुतः पोत्रादिति पोतारम् । ग्नावो नेष्ट्रादिति नेष्टारम् । अग्निर्दैवीनां विशां पुरएतायं यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यं दीदयच्छतं हिमा द्वा यू राधांसीत्संपृञ्चानावसंपृञ्चानौ तन्व इति
यजमानम् ८
अयं सुन्वन्यजमानो मनुष्याणामिति वा ९
सवनीये वरणमेके समामनन्ति । तत्र सुन्वन्निति ब्रूयात् १०
सर्वत्रोपांशु नामग्रहणम् । मानुष इत्युच्चैः ११
इत्येकोनविंशी कण्डिका इति सप्तमः पटलः

प्रवृतःप्रवृतः प्रवृतहोमौ जुहोति जुष्टो वाचो भूयासमृचा स्तोमं समर्धयेत्येताभ्याम् १ 11.20.1
दिवा प्रयाजैः प्रचर्यास्तंयन्तमनूयाजैरुपासते २
हुतायां वपायां मार्जयित्वा सुब्रह्मण्य पितापुत्रीयां सुब्रह्मण्यामाह्वयेति संप्रेष्यति ३
पितापुत्रीयैवात ऊर्ध्वं सुब्रह्मण्या भवति ४
आहूतायां वसतीवरीः कुम्भेन गिरिभिदां वहन्तीनां प्रत्यङ्तिष्ठन्गृह्णाति ५
नान्तमा वहन्तीरतीयात् ६
छायायै चातपतश्च संधौ गृह्णाति ७
यद्यभिच्छायां न विन्देदात्मनो वृक्षस्य कूलस्य वा छायायाम् ८
प्रतीपमुपमारयन्हविष्मतीरिमा आप इति गृह्णाति ९
यस्यागृहीता अभिनिम्रोचेत्सुवर्न घर्मः स्वाहेति पञ्चार्काहुतीर्हुत्वा वरे दत्त उल्कामुपरिष्टाद्धारयमाणो गृह्णीयात् । हिरण्यं वावधाय १०
यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात् ११
सोमयाजी बहुयाजी भवतीति विज्ञायते १२
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीत्यपरेण शालामुखीयमुपसादयति । सुम्नाय सुम्निनीः सुम्ने मा धत्तेति सर्वेषु वसतीवरीणां सादनेषु यजमानो जपति । अग्नीषोमीयस्य पशुपुरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते १३
न यजमानोऽग्नीषोमीयस्याश्नाति । अश्नीयाद्वा
१४
न स्वरुं जुहोति । न हृदयशूलमुद्वासयति । एवं सवनीये १५
पत्नीसंयाजान्तोऽग्नीषोमीयः संतिष्ठते १६
इति विंशी कण्डिका

निशायां वसतीवरीः परिहरत्यन्तर्वेद्यासीने यजमाने पत्न्यां च १ 11.21.1
नादीक्षितमभिपरिहरेत् २
सव्येऽसें!ऽत्याधायापरेण प्राजहितं परिक्रम्य पूर्वया द्वारोपनिर्हृत्य दक्षिणेन वेदिं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य दक्षिणस्यामुत्तरवेदिश्रोण्यां सादयतीन्द्राग्नियोर्भागधेयी स्थेति ३
दक्षिणेऽसें! ऽत्याधाय यथेतं गत्वा पूर्वया द्वारोपनिर्हृत्योत्तरेण वेदिं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्योत्तरस्यामुत्तरवेदिश्रोण्यां सादयति मित्रावरुणयोर्भागधेयी स्थेति ४
सव्ये ऽसें! त्याधाय यथेतं गत्वापरेणाग्नीध्रीयं धिष्णियमुपसादयति विश्वेषां देवानां भागधेयी स्थेति ५
यज्ञे जागृतेति सन्ना अभिमन्त्रयते ६
अत्र प्रतिप्रस्थाता पयस्यार्थं सायंदोहं दोहयति ७
अध्वर्युः संप्र्रेष्यति या यजमानस्य व्रतधुक्तस्या आशिरं कुरुत या पत्नियै तस्यै दधिग्रहाय या घर्मधुक्तस्यै दधिघर्माय तप्तमनातक्तं मैत्रावरुणाय शृतातङ्क्यं दधि कुरुतादित्यग्रहाय सुब्रह्मण्य सुब्रह्मण्यामाह्वय न सदस्युपवस्तवा इति ८
संप्रैषवत्कुर्वन्ति ९
अत्र सवनीयस्य सवनीयानामितीध्माबर्हिः संनह्यति १०
न वा बर्हिः । प्रस्तरमेव ११
आग्नीध्रे हविर्धाने वा यजमानं जागरयन्ति । प्राग्वंशे पत्नीम् १२
आग्नीध्र एतां रात्रिमृत्विजो वसन्ति १३
यजमानो राजानं गोपयति गोपयति १४
इत्येकविंशी कण्डिका इत्यष्टमः पटलः
इत्येकादशः प्रश्नः

  1. प्राचीनवंशे यः पूर्वमाहवनीयः स एव अग्निप्रणयनोत्तरं गार्हपत्यः संपद्यते। स एव शालायाः मुखे भव शालामुखीयो नाम शालामुखीयः अग्निः प्राचीनवंशशालायाः पूर्वभागे वर्तमानः आहवनीय एव। अयं च महावेदिनिष्पत्यनन्तरं गार्हपत्यः सञ्जायते - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोशः
  2. प्राजहितः प्राचीनवंशस्थः पश्चिमवह्निरूपो मुख्यो गार्हपत्य एव। इयं च पूर्वाचार्यसंज्ञा। (२) प्राजहितः पुरातनो गार्हपत्य उच्यते(तु. का.श्रौ ८.६.२१(विद्याधरः) - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोशः
  3. अथाङ्गुलीर्न्यचति । स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याम् कनिष्ठिके । स्वाहा दिवः अनामिके । स्वाहा पृथिव्याः मध्यमे । स्वाहोरोरन्तरिक्षात् प्रादेशिन्यौ । स्वाहा यज्ञं वातादारभे अङ्गुष्ठाभ्यां मुष्टी करोति वाचं च यच्छति । - आपस्तम्बीयश्रौतप्रयोगः अध्यायः १