तृतीयः प्रकाश:
षट्त्रिंशत्काव्यगुणाः
भूषणमक्षरसंघः शोभा गुणकीर्तनन्निरुक्तं च ।
अभिमानोदाहरणे गुणानुवादः प्रियं हेतुः ।। १ ।।
प्रोत्साहनसारूप्ये मिथ्याव्यवसाथसिद्धिदृष्टान्ताः ।
आशीस्संशयकपटौ क्षमानुवृत्ती पदोच्चयाक्रन्दौ ॥ २ ॥
परिदेवनोपवृत्ती वाच्ञा प्राप्तिर्मनोरथो युक्तिः ।
अतिशयपृच्छाख्यानप्रतिषेधास्सानुनीतिनिर्मासाः ॥ ३ ॥
कार्यं पश्चात्तापः षट्त्रिंशल्लक्षणावलिस्सेयम् ।
नाट्ये भावार्थगताः सालङ्कारा बुधैः प्रयोक्तव्याः ।। ४ ।।
अलङ्कृतेिरलङ्कारैरभिधेयस्य भूषणम् ।
अल्पाक्षरैरनल्पार्थविवृतिस्त्वक्षरावलिः ॥ ५ ॥
सिद्धैरर्थैस्समीकृत्य शोभाऽसिद्धस्य भाषणम् ।
बहूनामभिधेयानां वर्णनं गुणकीर्तनम् ॥ ६ ॥
निरुक्तं द्विविधं तथ्यमतथ्यमिति कथ्यते ।
मिथ्या(सिद्ध्या)प्रसाधितं तथ्यमतध्यमितरङ्भषेत् ।। ७ ।।
अनिर्णयोऽभिमानस्स्यादभिधेयस्य हेतुभिः ।
उदाहृतिर्गभीरोक्तिः प्रसिद्ध्याक्षेपगर्भिता ।। ८ ।।
गुणानुवादो महता गुणेनाल्पस्य तुल्यता ।
आदौ क्त्क्रोधजननं तत्प्रियं प्रीतिकृत्पुनः ॥ ९ ॥
अनादृत्य बहूनर्थान्हेतुरिष्टार्थसंसमम् ।
प्रीत्युत्साहकरैरर्थैसक्तिः प्रोत्साहनं भवेत् ॥ १० ॥
4