पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

वगाह –अवगाहः । पिधानम्-अपिधानम् ।

इत्यव्ययप्रकरणम् ।


प्रत्युत 'डयाप्प्रातिपदिकात्' इति सूत्रस्थभाष्यपर्यालोचनया नास्तीत्येव युक्तम् । तत्र ह्येवमुक्त “आब्ग्रहणन्न कार्य, खट्टा मालेल्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम्” इत्युक्ता, कुञ्चा उष्णिहा देवविशेति हलन्तात् टाप स्वाद्यर्थमाब्ग्रहणमस्त्विति आक्षिप्य 'कुचानालभेत उष्णिहककुभौ देवविशञ्च' इति अकारान्तादेव तत्रापि टाबित्युक्ता ‘डाबुभाभ्यामन्यतरस्याम्’ इति बहुराजा, बहुराजे, बहुराजा इत्यर्थम् आव्ग्रहणमिति समाहितम् । “आपच्चैव हलन्तानाम्’ इत्याश्रित्य वाचा निशा दिशेत्युक्तम् । अत्र निश्दिशोरिगुपधलक्षणे के अदन्तत्वाद्वापि निशा इत्यादिरूपसम्भवेऽपि वाचाशब्द असाधुरेवेति शब्देन्दुशेखरे स्थितम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया बालमनोरमाख्यायाम् अव्ययनिरूपण समाप्तम् ।