पृष्ठम्:साहित्यसारः.pdf/32

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
द्वितीयः प्रकाशः


प्रतिलोमानुलोमेन यत्र स्यादुत्तरं द्विधा ।
गतप्रत्यागतमिति तदेव कवयो विदुः ॥ १४४ ॥

संस्कृतप्राकृतोल्लासि मिश्रमित्यभिधीयते ।
वलयारान्तरालेषु रथाङ्गस्य तथोदरे ।। १४५ ॥

नियमेनाक्षरन्यासश्चक्रबन्धो निगद्यते ।
तस्य भेदो महानेव नास्माभिरिह कथ्यते ।। १४६ ।।

प्रसिद्धत्वात्परं वाच्यमष्टारं षडरं तथा ।
चतुर्णामेव सुव्यक्तमराणामन्तरार्पितैः ॥ १४७ ॥

यत्रान्योन्यप्रबन्धानां गतप्रत्यागताक्षरैः ।
आरम्भश्च समाप्तिश्च पदानां नाभिमण्डले ॥ १४८ ॥

अराणां व्यक्तमन्येषामग्रेष्वेकैकमक्षरम् ।
अराणामन्तरालेषु बहिर्वलयवर्तिषु ॥ १४९ ।।

एकैकाक्षरसंयुक्तं छन्दसा त्रिष्टुभा कृतम् ।
तदष्टारमिति ज्ञेयं विद्वद्भिश्चक्रबन्धनम् ॥ १५० ॥

वलयत्रितयच्छिद्रेष्वेकद्वित्र्यक्षरान्वितम् ।
एकं नाभ्यक्षरं यत्र कविकाव्याभिधाङ्कितम् ॥ १५१ ।।

चतुर्थपादसंसक्तैराद्यन्तैरक्षरैः श्रितम् ।
अरषट्कस्य रेखासु पदत्रितयमुच्यते ।। १५२ ।।

षडराग्रान्तरालेषु द्वाभ्यां प्रत्येकभागतः ।
अक्षराभ्यामतिस्पष्टकल्पिताभ्यां प्रपूरितः ।। १५३ ।।

तदक्षरं तृतीयान्ते पादाद्यन्तातिशायिभिः ।
पादश्चतुर्थो दृश्येत बहिर्वलयमण्डले ॥ १५४ ।।

तदत्र षडरन्नाम कथ्यते चक्रबन्धनम् ।
एकमेवाक्षरं यत्र कर्णिकामध्यसंस्थितम् ॥ १५५ ।।