शबराभीरचण्डालन्धपाकवृषत्वादिभिः ।
हीमाणह इति स्पष्टं वक्तव्यं सदृशे जने ।। ३४ ।।
समानरूपसंपत्तिशीलादिगुणशालिनी ।
सखीति कथ्यते नारी नारीभिर्नाटकाश्रिता ॥ ३५ ॥
विद्यमानेषु मनसि कार्यजातेष्वनेकधा ।
तदोवट्टिहमित्याहुः प्रधानं यन्मनीषिणः ।। ३६ ।।
आकाशे वातसंयोगात् सञ्जातो यो वरण्डकः ।
स एवान्योन्यशब्देन वरण्डीत्यभिधीयते ॥ ३७ ॥
भयाहङ्कारसम्मानमोहकण्ठग्रहादिषु ।
हीशब्दोऽपि प्रयोक्तव्यश्चेटचेटीविदूषकैः ॥ ३८ ।।
जनान्तिकादिः
पश्चात्तापप्रवासोर्वीचलनमा हामिषु
नायिकाहृदयोत्त्कम्पः पुरोभाग इति स्मृतः ॥ ३९ ॥
त्रिपताकं करं कृत्वा यदन्यस्य मनोगतम् ।
अप्रकाशं जनं वक्ति तज्जनान्तिकमुच्यते ।। ४० ।।
अप्रत्यक्षेण पात्रेण सह रङ्गस्थितो नरः ।
यद्वक्त्यभिमुखीकृत्य तदाकाशमिति स्मृतम् ॥ ४१ ॥
पुरोहितद्विजामात्यविठनेतृतपस्विभिः ।
विषादभयचिन्तासु हन्त इत्यभिधीयते ॥ ४२ ॥
समीपावस्थितेष्वन्येष्व दिषु (?)
मनसा यन्नसे वक्ति स्वगतं तन्निगद्यते ॥ ४३ ॥
मनस्यवस्थितं कार्यं पुस्तः पार्श्ववर्तिनाम् ।
निश्शङ्कमुच्यते यत्तु तत्रवशं विदुर्बुधाः ॥ ४४ ॥