पृष्ठम्:साहित्यसारः.pdf/13

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



साहित्यसारे

आमुखस्थापनाभेदात् सा पुनर्द्विविधा भवेत् ।
सूत्रधारो नटीयुक्तो वस्तुप्रस्तावनाविधिम् ॥ ३५ ॥

कुरुते यत्र सद्वृत्तैस्तदामुखमुदाहृतम्।
पारिपार्श्वकसंयुक्तो वा विदूषकसंयुतः ॥ ३६ ॥

वस्तु विस्तारयेत्सूत्री यत्र सा स्थापना स्मृता ।
अत्रैवं विधिरादिष्टो गुरुभिस्तत्त्ववेदिभिः ॥ ३७ ॥

पूर्वरङ्गं विधायादौ साङ्गं रङ्गव्यवस्थितेः ।
कृतसादस्य सत्कारे सूत्रधारे कृताञ्जलौ ॥ ३८ ॥

तद्वन्नटः प्रविश्यान्यश्शुद्धाम्बरधरश्शुचिः ।
काव्यमास्थापयेदाशु सविशेषगुणाश्रयम् । ३९ ॥

दैविकं दैविको भूत्वा मानुषं मानुषाकृतिः ।
तयोरन्यतरो भूत्वा मिश्रीभूतमपश्रमः ॥ ४० ॥

सूचयेत्स्वगिरा साधु प्रोद्भिद्यदमृतश्रिया ।
सबीजं वस्तु वा तत्र मुखं वा पात्रमेव वा ॥ ४१ ॥

अनवद्यपदैः पद्यै: सभ्यासभ्यान् प्रसादयन् ।
ऋतुमासाद्य यं कञ्चिद्भारतीं वृत्तिमाश्रयेत् ॥ ४२ ॥

भारती तु यथायोगं स्वप्रसङ्गे विधास्यते ।
सर्वमुक्त्वाऽथ वक्तव्यमन्ते प्रस्तावनाविधेः ॥ ४३ ॥

सूत्रधारः स्वयं गच्छेदागच्छेत्पात्रमन्तिके ।
सूचितस्स्तुतया गीत्या श्रुत्वा स्मृत्वा समीक्ष्य वा ॥ ४४ ॥

नाटके नायकादीनां कथावस्त्वभिधीयते ।
मुख्यामुख्यप्रभेदेन तदत्र द्विविधं स्मृतम् ॥ ४५ ॥

तत्र नेतृकथामुख्यममुख्यमितरद्भवेत् ।
तदमुख्यमपि त्रेधा वस्तु सर्वत्र नाटके ॥ ४६ ॥