पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धसारः ।

तथा विष्णुपुराणे -

पितृगीतास्तथैवात्र श्लोकास्तान् शृणु पार्थिव ? ।
तथैव भवता भाव्यं तेन तत्र धृतात्मना ।
अपि धन्यः कुले जातो योऽस्माकमतिमात्रतः ।
अकुर्वन् वित्तशाठ्यं यः पिण्डान्नो निर्वेपिष्यति ।


यमस्मृतों

“इमं मन्त्र विधिश्रेष्ठ कामार्थ कथि(ल्पि)तं द्विजैः ।
ये विप्रा ह्यनुवर्तन्ते तेषा लोकाः सनातनाः ।।
आयुः पुत्रान्यशः स्वर्ग कीर्ति पुष्टि वलं श्रियम् ।
पशून्सौख्य धनं धान्य प्राप्नुयात्पितृपूजनात्” ।।


ब्रह्मपुराणे

एवं सम्यग्गृहस्थेन देवताः पितरस्तथा ।
सम्पूज्या हव्यकव्येन अन्नेनापि स्वबान्धवाः ।।
परत्र च परां पुष्टि लोकांश्च विपुलान् शुभान् ।
श्राद्धकृत्समवामोति यशश्च विपुलं नरः” ।।


विष्णुधर्मोत्तरे

“अद्यप्रभृति लोकेषु प्रेतानुद्दिश्य वै पितृन् ।
ये तु श्राद्धं करिष्यन्ति तेषा पुष्टिर्भविष्यति ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तेषां त्रयः पूजिताश्च भविष्यन्ति तथाऽयथः ।।
त्रयो वेदाश्च लोकाश्च त्रयो, देवास्तथैव च ।
पूजिताश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।