पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धसारः ।

शाखाभेदेन वै चाघ्र्यपात्रादेस्तत्वनिर्णयः ।
सङ्कल्पे च नृथा भेदो महानत्र निरूप्यते !!
अग्नौकरणकृत्ये तु विशेषः सम्यगुच्यते ।
अनेकस्मृतिकाराणा समतः शिष्टसम्मतः । ।
पृथिवीत्यादिसङ्कल्पविशेषश्चाभिधीयते ।
पिण्डनिर्वपा पश्चात्सम्यगत्र निरूप्यते ।
अनेकान् सुनिबन्धास्तु पर्यालोच्य प्रयत्नतः ।
कारिकागृत्यवृत्यादिग्रन्थानालाडय सर्वशः
पद्धत्यादि यथावुद्धि चन्द्रशेखरनिर्मितम् ।
चतुःशाखासु विहितं श्राद्धकर्म सुविस्तृतम् ।।
वेदाभिहितमार्गस्य रक्षणायाभिधीयते ।
नित्यश्राद्धप्रसङ्गन इलाधिपमहीभुजा’ इति ।
तत्र श्राद्धं नाम प्रेतोद्देशेन श्रद्धया द्रव्यत्यागः ।



तदुक्त ब्रह्मपुराणे -

देशे काले च पात्रे च श्रद्धया विधिना च यत् ।
पितृनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम्’ इति ।



तथा-

“होमश्च पिण्डदानञ्च तथा ब्राह्मणतर्पणम् ।
श्राद्धशब्दाभिधेयं स्यादेकस्मिन्नौपचारिकः? ।।
श्राद्धशब्द इति शेषः । तच श्राद्धमवश्यमनुष्टयम् ।