पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नृसिहप्रसादे

पवादन्नस्य शुद्धिश्च विस्तरेणाभिधीयते ।
नन: पर द्रव्यशुद्धिः शुद्धिः सम्यगिहोच्यते ।।
धनधान्यविशुद्धिश्च ततः परमिहोच्यते ।
ततो वत्रादिशुद्धिश्च मविशेषा निरूप्यते ।।
देदशुद्धिरतः पश्चात्सविशेषा निरूप्यते ।
पार्वणादिविभेदेन श्राद्धभेदनिरूपणम् ।।
नित्यकाम्यादिभेदेन सविशेष ततः परम् ।
निस्टपणञ्च क्रियते बहुसम्मतसम्मतम् ।।
श्राद्धदेशा अपि तथा प्राच्यन्ते हि विशेषतः ।
तथा निषिद्धदेशाना निराकरणमिष्यते ।
श्राद्धकालांस्ततो वक्ष्ये त्वष्टकाप्रभृतींस्तथा ।
काम्यान् रव्यादिकालाश्च व्यतीपातांस्तथा परान् ।।
निर्णायते ततः श्राद्धं सम्यगापरपाक्षिकम् ।
त्रयोदशीचतुर्दश्योः श्राद्धनिर्णय उच्यते ।
वज्यः कालास्ततः सर्वेऽभिधीयन्ते विशेषतः ।
आशांचोत्तरकालं तु श्राद्धकर्तव्यतोच्यते ।।
गन्धद्रव्याणि सर्वाणि निर्णायन्ने ततः परम् ।
पादिनिर्णयः पश्चात्सम्यगेवाभिधीयते ।
ब्राह्मणानामियत्वा तु ततः परमिहोच्यते ।
अनेकश्राद्धसम्पाते वैश्वदेविकतन्त्रता ।।
निरूप्यते सुविशदाऽनेकग्रन्थविलोकनात् ।
पादप्रक्षालने रीतिः सविशेषा निरूप्यते ।।