शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ९/ब्राह्मण १

विकिस्रोतः तः

३.९.१ पश्वेकादशिनी

प्रजापतिर्वै प्रजाः ससृजानो रिरिचान इवामन्यत । तस्मात्पराच्यः प्रजा आसुर्नास्य
प्रजाः श्रियेऽन्नाद्याय तस्थिरे - ३.९.१.१

स ऐक्षतारिक्ष्यहम् । अस्माऽउ कामायासृक्षि न मे स कामः समार्द्धि पराच्यो मत्प्रजा अभूवन्न मे प्रजाः श्रियेऽन्नाद्यायास्थिषतेति - ३.९.१.२

स ऐक्षत प्रजापतिः । कथं नु पुनरात्मानमाप्याययेयोप मा प्रजाः समावर्तेरंस्तिष्ठेरन्मे प्रजाः श्रियेऽन्नाद्यायेति - ३.९.१.३

सोऽर्चञ्छ्राम्यंश्चचार प्रजाकामः । स एतामेकादशिनीमपश्यत्स एकादशिन्येष्ट्वा प्रजापतिः पुनरात्मानमाप्याययतोपैनं प्रजाः समावर्तन्तातिष्ठन्तास्य प्रजाः श्रियेऽन्नाद्याय स वसीयानेवेष्ट्वाभवत् - ३.९.१.४

तस्मै कमेकादशिन्या यजेत । एवं हैव प्रजया पशुभिराप्यायत उपैनं प्रजाः समावर्तन्ते तिष्ठन्तेऽस्य प्रजाः श्रियेऽन्नाद्याय स वसीयानेवेष्ट्वा भवत्येतस्मै कमेकादशिन्या यजते - ३.९.१.५

स आग्नेयं प्रथमं पशुमालभते । अग्निर्वै देवतानां मुखं प्रजनयिता स प्रजापतिः स उ एव यजमानस्तस्मादाग्नेयो भवति - ३.९.१.६

अथ सारस्वतम् । वाग्वै सरस्वती वाचैव तत्प्रजापतिः पुनरात्मानमाप्याययत वागेनमुपसमावर्तत वाचमनुकामात्मनोऽकुरुत वाचो एवैष एतदाप्यायते वागेनमुपसमावर्तते वाचमनुकामात्मनः कुरुते - ३.९.१.७

अथ सौम्यम् । अन्नं वै सोमोऽन्नेनैव तत्प्रजापतिः पुनरात्मानमाप्याययतान्नमेनमुपसमावर्ततान्नमनुकमात्मनोऽकुरुतान्नेनो एवैष एतदाप्यायतेऽन्नमेनमुपसमावर्ततेऽन्नमनुकमात्मनः कुरुते - ३.९.१.८

तद्यत्सारस्वतमनु भवति । वाग्वै सरस्वत्यन्नं सोमस्तस्माद्यो वाचा प्रसाम्यन्नादो हैव भवति - ३.९.१.९

अथ पौष्णम् । पशवो वै पूषा पशुभिरेव तत्प्रजापतिः पुनरात्मानमाप्याययत पशव एनमुपसमावर्तन्त पशूननुकानात्मनोऽकुरुत पशुभिर्वेवैष एतदाप्यायते पशव एनमुपसमावर्तन्ते पशूननुकानात्मनः कुरुते - ३.९.१.१०

अथ बार्हस्पत्यम् । ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैतत्प्रजापतिः पुनरात्मानमाप्याययत ब्रह्मैनमुपसमावर्तत ब्रह्मानुकमात्मनोऽकुरुत ब्रह्मणो एवैष एतदाप्यायते ब्रह्मैनमुपसमावर्तते ब्रह्मानुकमात्मनः कुरुते - ३.९.१.११

तद्यत्पौष्णमनु भवति । पशवो वै पूषा ब्रह्म बृहस्पतिस्तस्माद्ब्राह्मणः पशूनभिधृष्णुतमः पुराहिता ह्यस्य भवन्ति मुख आहितास्तस्मादु तत्सर्वं दत्त्वाजिनवासी चरति - ३.९.१.१२

अथ वैश्वदेवम् । सर्वं वै विश्वे देवाः सर्वेणैव तत्प्रजापतिः पुनरात्मानमाप्याययत सर्वमेनमुपसमावर्तत सर्वमनुकमात्मनोऽकुरुत सर्वेणो एवैष एतदाप्यायते सर्वमेनमुपसमावर्तते सर्वमनुकमात्मनः कुरुते - ३.९.१.१३

तद्यद्बार्हस्पत्यमनु भवति । ब्रह्म वै बृहस्पतिः सर्वमिदं विश्वे देवा अस्यैवैतत्सर्वस्य ब्रह्म मुखं करोति तस्मादस्य सर्वस्य ब्राह्मणो मुखम् - ३.९.१.१४

अथैन्द्रम् । इन्द्रियं वै वीर्यमिन्द्रमिन्द्रियेणैव तद्वीर्येण प्रजापतिः पुनरात्मानमाप्याययतेन्द्रियमेनं वीर्यमुपसमावर्ततेन्द्रियं वीर्यमनुकमात्मनोऽकुरुतेन्द्रियेणो एवैष एतद्वीर्येणाप्यायत इन्द्रियमेनं वीर्यमुपसमावर्तत इन्द्रियं वीर्यमनुकमात्मनः कुरुते - ३.९.१.१५

तद्यद्वैश्वदेवमनु भवति । क्षत्रं वा इन्द्रो विशो विश्वे देवा अन्नाद्यमेवास्मा ऽएतत्पुरस्तात्करोति - ३.९.१.१६

अथ मारुतम् । विशो वै मरुतो भूमो वै विड्भूम्नैव तत्प्रजापतिः पुनरात्मानमाप्याययत भूमैनमुपसमावर्तत भूमानमनुकमात्मनोऽकुरुत भूम्नो एवैष एतदाप्यायते भूमैनमुपसमावर्तते भूमानमनुकमात्मनः कुरुते - ३.९.१.१७

तद्यदैन्द्रमनु भवति । क्षत्रं वा इन्द्रो विशो विश्वे देवा विशो वै मरुतो विशैवैतत्क्षत्रं परिबृंहति तदिदं क्षत्रमुभयतो विशा परिबृढम् - ३.९.१.१८

अथैन्द्राग्नम् । तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र उभाभ्यामेव तद्वीर्याभ्याम्प्रजापतिः पुनरात्मानमाप्याययतोभे एनं वीर्ये उपसमावर्तेतामुभे वीर्ये अनुके आत्मनो कुरुतोभाभ्याम्वेवैष एतद्वीर्याभ्यामाप्यायत उभे एनं वीर्ये उपसमावर्तेते उभे वीर्ये अनुके आत्मनः कुरुते - ३.९.१.१९

अथ सावित्रम् । सविता वै देवानां प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते - ३.९.१.२०

अथ वारुणमन्तत आलभते । तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति - ३.९.१.२१

तस्माद्यदि यूपैकादशिनी स्यात् । आग्नेयमेवाग्निष्ठे नियुञ्ज्यादथेतरान्व्युपनयेयुर्यथापूर्वम् - ३.९.१.२२

यद्यु पश्वेकादशिनी स्यात् । आग्नेयमेव यूप ऽआलभेरन्नथेतरान्यथापूर्वम् - ३.९.१.२३

तान्यत्रोदीचो नयन्ति । आग्नेयमेव प्रथमं नयन्त्यथेतरान्यथापूर्वम् - ३.९.१.२४

तान्यत्र निविध्यन्ति । आग्नेयमेव प्रथमं दक्षिणार्ध्यं निविध्यन्त्यथेतरानुदीचोऽतिनीय यथापूर्वम् - ३.९.१.२५

तेषां यत्र वपाभिः प्रचरन्ति । आग्नेयस्यैव प्रथमस्य वपया प्रचरन्त्यथेतरेषां यथापूर्वम् - ३.९.१.२६

तैर्यत्र प्रचरन्ति । आग्नेयेनैव प्रथमेन प्रचरन्त्यथेतरैर्यथापूर्वम् - ३.९.१.२७