देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ११
वेदव्यासः‎
अध्यायः १२ →

देवीमाहात्म्ये मधुकैटभवधवर्णनम्

राजोवाच
 का सा देवी त्वया प्रोक्ता ब्रूहि कालविदां वर ।
 का मोहयति सत्त्वानि कारणं किं भवेद्‌ द्विज ॥ १ ॥
 कस्मादुत्पद्यते देवी किंरूपा सा किमात्मिका ।
 सर्वमाख्याहि भूदेव कृपया मम सर्वतः ॥ २ ॥
 मुनिरुवाच
 राजन् देव्याः स्वरूपं ते वर्णयामि निशामय ।
 यथा चोत्पतिता देवी येन वा सा जगन्मयी ॥ ३ ॥
 यदा नारायणो देवो विश्वं संहृत्य योगराट् ।
 आस्तीर्य शेषं भगवान् समुद्रे निद्रितोऽभवत् ॥ ४ ॥
 तदा प्रस्वापवशगो देवदेवो जनार्दनः ।
 तत्कर्णमलसञ्जातौ दानवौ मधुकैटभौ ॥ ५ ॥
 ब्रह्माणं हन्तुमुद्युक्तौ दानवौ घोररूपिणौ ।
 तदा कमलजो देवो दृष्ट्वा तौ मधुकैटभौ ॥ ६ ॥
 निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम् ।
 निद्रितो भगवानीशो दानवौ च दुरासदौ ॥ ७ ॥
 किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम् ।
 एवं चिन्तयतस्तस्य पद्ययोनेर्महात्मनः ॥ ८ ॥
 बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी ।
 यस्या वशं गतो देवो निद्रितो भगवान् हरिः ॥ ९ ॥
 तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् ।
 ब्रह्मोवाच
 देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे ॥ १० ॥
 जगन्माये महामाये समुद्रशयने शिवे ।
 त्वदाज्ञावशगाः सर्वे स्वस्वकार्यविधायिनः ॥ ११ ॥
 कालरात्रिर्महारात्रिर्मोहरात्रिर्मदोत्कटा ।
 व्यापिनी वशगा मान्या महानन्दैकशेवधिः ॥ १२ ॥
 महनीया महाराध्या माया मधुमती मही ।
 परापराणां सर्वेषां परमा त्वं प्रकीर्तिता ॥ १३ ॥
 लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारुण्यविग्रहा ।
 कमनीया जगद्वन्द्या जाग्रदादिस्वरूपिणी ॥ १४ ॥
 परमा परमेशानी परानन्दपरायणा ।
 एकाप्येकस्वरूपा च सद्वितीया द्वयात्मिका ॥ १५ ॥
 त्रयी त्रिवर्गनिलया तुर्या तुर्यपदात्मिका ।
 पञ्चमी पञ्चभूतेशी षष्ठी षष्ठेश्वरीति च ॥ १६ ॥
 सप्तमी सप्तवारेशी सप्तसप्तवरप्रदा ।
 अष्टमी वसुनाथा च नवग्रहमयीश्वरी ॥ १७ ॥
 नवरागकला रम्या नवसंख्या नवेश्वरी ।
 दशमी दशदिक्पूज्या दशाशाव्यापिनी रमा ॥ १८ ॥
 एकादशात्मिका चैकादशरुद्रनिषेविता ।
 एकादशीतिथिप्रीता एकादशगणाधिपा ॥ १९ ॥
 द्वादशी द्वादशभुजा द्वादशादित्यजन्मभूः ।
 त्रयोदशात्मिका देवी त्रयोदशगणप्रिया ॥ २० ॥
 त्रयोदशाभिधा भिन्ना विश्वेदेवाधिदेवता ।
 चतुर्दशेन्द्रवरदा चतुर्दशमनुप्रसूः ॥ २१ ॥
 पञ्चाधिकदशी वेद्या पञ्चाधिकदशी तिथिः ।
 षोडशी षोडशभुजा षोडशेन्दुकलामयी ॥ २२ ॥
 षोडशात्मकचन्द्रांशुव्याप्तदिव्यकलेवरा ।
 एवंरूपासि देवेशि निर्गुणे तामसोदये ॥ २३ ॥
 त्वया गृहीतो भगवान्देवदेवो रमापतिः ।
 एतौ दुरासदौ दैत्यौ विक्रान्तौ मधुकैटभौ ॥ २४ ॥
 एतयोश्च वधार्थाय देवेशं प्रतिबोधय ।
 मुनिरुवाच
 एवं स्तुता भगवती तामसी भगवत्प्रिया ॥ २५ ॥
 देवदेवं तदा त्यक्त्वा मोहयामास दानवौ ।
 तदैव भगवान्विष्णुः परमात्मा जगत्पतिः ॥ २६ ॥
 प्रबोधमाप देवेशो ददृशे दानवोत्तमौ ।
 तदा तौ दानवौ घोरौ दृष्ट्वा तं मधुसूदनम् ॥ २७ ॥
 युद्धाय कृतसङ्‌कल्पौ जग्मतुः सन्निधिं हरेः ।
 युयुधे च ततस्ताभ्यां भगवान्मधुसूदनः ॥ २८ ॥
 पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
 तौ तदातिबलोन्मत्तौ जगन्मायाविमोहितौ ॥ २९ ॥
 व्रियतां वर इत्येवमूचतुः परमेश्वरम् ।
 एवं तयोर्वचः श्रुत्वा भगवानादिपूरुषः ॥ ३० ॥
 वव्रे वध्याबुभौ मेऽद्य भवेतामिति निश्चितम् ।
 तौ तदातिबलौ देवं पुनरेवोचतुर्हरिम् ॥ ३१ ॥
 आवां जहि न यत्रोर्वी पयसा च परिप्लुता ।
 तथेत्युक्त्वा भगवता गदाशङ्‌खभृता नृप ॥ ३२ ॥
 कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ।
 एवं देवी समुत्पन्ना ब्रह्मणा संस्तुता नृप ॥ ३३ ॥
 महाकाली महाराज सर्वयोगेश्वरेश्वरी ।
 महालक्ष्म्यास्तथोत्पत्तिं निशामय महीपते ॥ ३४ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीमाहात्म्ये मधुकैटभवधवर्णनं नाम एकादशोऽध्यायः ॥ ११ ॥