भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०९

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०८ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०९
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१० →

सप्तमीव्रतवर्णनम्

।। सुमन्तुरुवाच ।। ।।
यः क्षिपेद्गोमयाहारः शुक्ला द्वादश सप्तमीः ।।
अथवा यावकाहारः शीर्णपर्णाशनोऽपि वा ।। १ ।।
क्षीराशी चैकभक्तो वा भिक्षाहारोथ वा पुनः ।।
जलाहारोपि वा विद्वान्पूजयित्वा दिवाकरम् ।। २ ।।
पुष्पोपहारैर्विविधैः पद्मसौगन्धिकोत्पलैः ।।
नानाप्रकारैर्गंधैश्च धूपैर्गुग्गुलुचंदनैः ।। ३ ।।
कृष्णगंधपायसाद्यैर्विचित्रैः सुविभूषणैः ।।
अर्चयित्वा द्विजाञ्च्छ्रेष्ठान्हिरण्यान्नादिभिर्नरः ।। ४ ।।
स तत्फलमवाप्नोति क्रतुभिर्भूरिदक्षिणैः ।।
यदेह तप्यते वीर प्राप्यते केवलं रवेः ।। ५
विमानवरमारूढः सूर्यलोके महीयते ।।
ततः पुण्यक्षयाद्राजन्कुले महति जायते ।। ६ ।।
एवं भक्त्या विवस्वंतं प्रतिमासं समाहितः ।।
पूजयेद्विधिवद्भक्त्या नामानि परिकीर्तयेत् ।। ७ ।।
चैत्रिके मासि विष्णुश्च माधवे ह्यर्यमेति वै ।।
शुक्रे विवस्वा न्मासे तु शुचौ मासे दिवाकरः ।। ८ ।।
पर्जन्यः श्रावणे मासि नभस्ये वरुणस्तथा ।।
मार्तंडेति च विज्ञेयः कार्तिके भार्गवः पुनः ।। ९ ।।
मार्गशीर्षेपि मित्रस्तु कीर्तितः सततं बुधैः ।।
पूषा पौषे तु वै मासे पूजनीयः प्रयत्नतः ।। १० ।।
माघे भगेति विज्ञेयस्त्वष्टा चैवाथ फाल्गुने ।।
एवं क्रमेण नामानि कीर्तयेत्प्रीतये रवेः ।। ११ ।।
धूपार्चनविधिमिमं सप्तम्यां सुसमाहितः ।।
यः करोति नरो भक्त्या स याति परमां गतिम् ।। १२ ।।
ततस्ते सर्वमाख्यातं यथागुह्यतमं विभोः ।।
नैव देयमशिष्याय नाभक्ताय कदाचन ।।१३।।
न च पापकृते देयं न देयं नास्तिकाय वा।।
कृतघ्ने नास्तिके वीर न देयं क्रूरकर्मणि ।। १४ ।।
य इदं शृणुयान्नित्यं सप्तमीव्रतमुत्तमम् ।।
पठेद्यश्चापि नियतः श्रद्धया परयान्वितः ।। १५ ।।
इह लोके सुखं प्राप्य सूर्यलोके महीयते ।।
पुण्यक्षयादिहागत्य राजा भवति भूतले ।। १६ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यारुणसंवादे प्रतिमाससप्तमीव्रतवर्णनं नाम नवाधिकद्विशततमोऽध्यायः ।। २०९ ।।