पृष्ठम्:Kalidasa's Śakuntala.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi.34.7–] अभिज्ञानशकुन्तले षष्ठो ऽङ्कः [92 राजा । अवहितो ऽस्मि । मातलिः । अस्ति कालनेमिप्रसूतो दुर्जयो नाम दानवगणः । 9राजा । श्रुतपूर्वो मया नारदात् । मातलिः । सख्युस्ते स किल शतक्रतोरबध्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता । उच्छेतुं प्रभवति यन्न सप्तसप्ति स्तनैशं तिमिरमपाकरोति चन्द्रः ॥ ३५ ॥ स भवानात्तचाप एवेदानीं देवरथमारुह्य विजयाय प्रतिष्ठताम् । राजा । अनुगृहीतो ऽस्म्यनया मघवतः संभावनया । अथ भवद्भिर्माधव्यं 3प्रति किमेवं प्रयुक्तम् । मातलिः । एतदपि कथ्यते । किंनिमित्तादपि मनस्तापादायुष्मान्विङ्गवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः । ज्वलति चलितेन्धनो ऽभिर्विप्रकृतः पन्नगः फणां कुरुते । तेजस्वी संक्षोभात्प्रायः प्रतिपद्यते तेजः ॥ ३६ ॥ राजा । वयस्य । अनतिक्रमणीया दिवस्पतेराज्ञा । तद्वच्छ । परिगतार्थ कृत्वा मद्वचनादमात्यपिशुनं हि । त्वन्मतिः केवला तावत्प्रतिपालयतु प्रजाः । अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥ ३७ ॥ विदूषकः । जं भवं आणवेदि । ॥ इति निष्क्रान्तः ॥ मातलिः । रथमारोहत्वायुष्मान् । ॥ राजा तथा करोति । 3॥ इति निष्क्रान्ताः सर्वे ॥ ॥ इति शकुन्तलाविरहो नाम षष्ठो ऽङ्कः ॥ Dated b (Google