पृष्ठम्:Kalidasa's Śakuntala.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[6o राजा । । स्वगतम् ॥ किं नु खलु गीतमेवंविधमाकण्येंष्टजनविरहादृते ऽपि 12 बलवदुत्कण्ठितो ऽस्मि । अथ वा । रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दा न्पर्युत्सुको भवति यत्सुखितो ऽपि जन्तुः । तचेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहृदानि ॥ ९ ॥ ॥ अस्मृतिनिमित्तमुन्मनस्कत्वं रूपयति । कञ्चुकी । । उपसृत्य ॥ जयति जयति देवः । एते खलु हिमगिरेरुपत्य कारण्यवासिनः कण्वसंदेशमादाय सस्रीकास्तपस्विनः प्राप्ताः । इति श्रुत्वा देवः प्रमाणम् । राजा । ॥ सविस्मयम् ॥ किं कण्वसंदेशहारिणः सखीकास्तपस्विन । 6कञ्चुकी। अथ किम् । राजा । तेन हि विज्ञाप्यतां मद्वचनादुपाध्यायः सोमरातः । अमूनाश्रम बासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमईसीति । अहमप्ये 9तांस्तपखिदर्शनोचिते देशे प्रतिपालयामि । कञ्चुकी । यथाज्ञापयसि । ॥ इति निष्क्रान्तः । राजा । । उत्थाय ॥ बेत्रवति । अमिशरणमार्गमादेशय । 12प्रतीहारी । इदो इदो एदु देवो । ॥ परिक्रम्य ॥ भट्टा । एसो अहिणव संमज्जणरमणीओ संणिहिदहोमधेणू अग्गिसरणालिन्दओ । ता आरोहदु 15 राजा । । साभिनयमारुह्य परिजनांसावलम्बी तिष्ठन् ॥ वेत्रवति । किमुद्दिश्य तत्रभवता कण्बेन मत्सकाशमृषयः प्रेषिताः । किं तावद् व्रतिनामुपोढतपसां विधैस्तपो दूषितं धर्मारण्यचरेषु केन चिदुत प्राणिष्वसचेष्टितम् । 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८०&oldid=83595" इत्यस्माद् प्रतिप्राप्तम्