पृष्ठम्:Kalidasa's Śakuntala.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i.35.3-] अभिज्ञानशकुन्तले [4० 3राजा । ॥ सस्मितम् ॥ यदि मन्यसे अहमेनां वदनमारुतेन विशदां करिष्ये । शकुन्तला । तदो अणुकम्पिदा भवे । किं उण ण दे वीससामि । राजा । मा मैवम् । नवो हि परिजनः सेव्यानामादेशात्परं न वर्तते । 6शकुन्तला । अअं जेव अचुवआरो अविस्सासजणओ । राजा । । खगतम् ॥ नाहमेतं रमणीयं सेवावकाशमात्मनः शिथिलयिष्ये । ।। इति मुखमुन्नमयितुं प्रवृत्तः । शकुन्तला प्रतिषेधं रूपयन्ती विरमति ॥ 9राजा । अयि मदिरेक्षणे । अलमस्मदविनयाशङ्कया । ॥ शकुन्तला किं चि दृष्टावनतमुखी तिष्ठति ॥ राजा । । अङ्गुलीभ्यां मुखमुन्नमय्यात्मगतम् ॥ चारुणा स्फुरितेनायमपरिक्षतकोमलः । पिपासतो ममानुज्ञां ददातवि मियाधरः ॥ ३६ ।। शकुन्तला । पडिण्णादमन्थरो विअ अज्जउत्तो । राजा । सुन्दरि । कर्णोत्पलसंनिकर्षादीक्षणसादृश्यमूढो ऽस्मि । ॥ इति मुख 3मारुतेन चक्षुः सेवते ।। शकुन्तला । भोदु । पइदित्थदंसण म्हि संवुत्ता । लज्जामि उण अणुवआ रिणी पिअआरिणो अज्जउत्तस्स । 6राजा । सुन्दरि । किमन्यत् । इदमप्युपकृतिपक्षे सुरभि मुखं ते मया यदाघ्रातम् । ननु कमलस्य मधुकरः संतुष्यति गन्धमात्रेण ॥ ३७ ॥ शकुन्तला । असंतोसे उण किं करेदि । राजा । इदमिदम् । ॥ इति व्यवसितो वत्रं ढौकते ॥ 3नेपथ्ये । चकवाअवहु । आमन्तेहि सहअरं । उवत्थिदा र अणी । शकुन्तला । । कर्ण दत्त्वा ससंभ्रमम् । अज्जउत्त । एसा खु मम वुत्तन्तोव लम्भणणिमित्तं अज्जा गोदमी आअदा । ता बिडवन्तरिदो होहेि । [Digitized by ७-1009IG

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/६०&oldid=83561" इत्यस्माद् प्रतिप्राप्तम्