पृष्ठम्:Kalidasa's Śakuntala.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i.29.2–] अभिज्ञानशकुन्तले [38 मे चलणा पुरोमुहा पसरन्ति । भोदु । इमेहिं पज्जन्तकुरुवएहिं ओवारि 3दसरीरा पेक्खिस्सं दाव से भावाणुबन्धं । ॥ तथा कृत्वा स्थिता ॥ राजा । कथमेवं प्रिये अनुरागैकरसं मामुत्सृज्य निरपेक्षेव गतासि । अनिर्दयोपभोग्यस्य रूपस्य मृदुनः कथम् । कठिनं खलु ते चेतः शिरीषस्येव बन्धनम् ॥ ३० ॥ शकुन्तला । एदं सुणिअ णत्थि मे विहवो गच्छिढुं । राजा । संप्रति प्रियाशून्ये किमस्मिन्करोमि । । अग्रतो ऽवलोक्य ॥ हन्त । 3व्याहतं गमनम् । मणिबन्धनगलितमिदं संक्रान्तोशीरपरिमलं तस्याः । हृदयस्य निगडमिव मे मृणालवलयं स्थितं पुरतः ॥ ३१ ॥ ॥ सबहुमानमादत्ते ॥ शकुन्तला । । हस्तं विलोक्य ॥ अम्मो । दोब्षलुसिढिलदाए परिव्भर्दू पि 3मुणालवलअं मए ण परिण्णादं । राजा । । मृणालवलयमुरसि निक्षिप्य । अहो स्पर्शः । अनेन लीलाभरणेन ते प्रिये। विहाय कान्तं भुजमत्र तिष्ठता । जनः समाश्वासित एष दुःखभा गचेतनेनापि सता न तु त्वया ॥ ३२ ॥ शकुन्तला । अदो वरं असमत्थ म्हि विलम्बिढुं । भोदु । एदेण जेब अवदेसेण अत्ताणअं दंसइस्सं । । इत्युपसर्पति ॥ 3राजा । ॥ दृष्टा सहर्षम् ॥ अये । जीवितेश्वरी मे प्राप्ता । परिदेवितानन्तरं प्रसादेनोपकर्तव्यो ऽस्मि खलु दैवस्य । पिपासाक्षामकण्ठेन याचितं चाम्बु पक्षिणा । नवमेघोज्झिता चास्य धारा निपितता मुखे ॥ ३३ ॥ [Digitized by ७-1009 [G

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५८&oldid=83558" इत्यस्माद् प्रतिप्राप्तम्