पृष्ठम्:Kalidasa's Śakuntala.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33] तृतीयो ऽङ्कः उपस्थितस्त्वां प्रणयोत्सुको जनो न रत्रमन्विष्यति मृग्यते हि तत् ॥ १७ ॥ सख्यौ। अइ अत्तगुणावमाणिणि । को णाम संतावणिव्वावइतिअं सारदीअं जोण्हं आदवतेण वारइस्सदि । 3शकुन्तला । ॥ सस्मितम् ॥ णिओइद म्हि । ॥ इति चिन्तयति ॥ राजा । स्थाने खलु विस्मृतनिमेषेण चक्षुषा मियामवलोकयामि । तथा हेि उन्नमितैकधूलतमाननमस्याः पदानि रचयन्त्याः । पुलकाचितेन कथयति मय्यनुरागं कपोलेन ॥ १८ ॥ शकुन्तला । हला । चिन्तिदा मए गीदिआ । असंणिहिदाई उण लेह साहणाई । 3 प्रियंवदा । णं इमस्सिं सुओदरसिणिद्धे णलिणीवते पत्तच्छेदभत्तीए णहेहिं आलिहीअदु । शकुन्तला । सुणध दाव णं संगदत्था ण व त् ि। 6उभे । अवहिदाओो म्ह । शकुन्तला । । पठति ॥ तुज्झ ण आणे हिअअं मम उण मअणो दिवा आ रतिं च । णिकिव दावइ बलिअं तुह हुत्तमणोराइ अङ्गाई ॥ १९ ॥ राजा । । सहसोपस्मृत्य । तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशां न तथा हेि कुमुद्वतीं दिवसः ॥ २० ॥ सख्यौ । । विलोक्य सहर्षमुत्थाय । साअदं जधासमीहृिदफलस्स अविल म्बिणो मणोरधस्स । ॥ शकुन्तला उत्थातुमिच्छति ॥ 3राजा । सुन्दरि । अलमलमायासेन । संदष्टकुसुमशयनान्याशुविमर्दितमृणालवलयानि । 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५३&oldid=83552" इत्यस्माद् प्रतिप्राप्तम्