पृष्ठम्:Kalidasa's Śakuntala.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25] द्वितीयो ऽङ्गः i. 17. 18 विदूषकः । ॥ अपवार्य । अअं दाणिं दे अणुऊलो गलहत्थो । राजा । रैवतक । उच्यतामस्मत्सारथिः सबाणकार्मुकं रथमुपस्थापयेति । 12रैवतकः । जं देवो आणवेदि । ॥ इति निष्क्रान्तः ॥ ऋषी । अनुकारिणि पूर्वेषां युक्तरूपमिदं स्वयि । आपणाभयसखेषु दीक्षिताः खलु पौरवाः ॥ १७ ॥ राजा । गच्छतां भवन्तौ । अहमप्यनुपदमागत एव । ऋषी । विजयस्व । ॥ इति निष्क्रान्तौ ॥ 3राजा । माधव्य । अप्यस्ति ते शकुन्तलादर्शनं प्रति कुतूहलम् । विदूषकः । पढमं अपरिबाधं आसि । संपदं रक्खसवुत्तन्तेण सपरिवाधं । राजा । मा भैषीः । ननु मत्समीप एव वर्तिष्यसे । 6विदूषकः । एसो क्खु तुह चकरक्खी भूदो म्हि । प्रविश्य दैौवारिकः । सज्जो रधो भट्टिणो विजअपत्थाणं अवेक्खदि । एसो उण ण अरादो देवीणं सआसादो करभओो आअदो । 9राजा । । सादरम् ॥ किमार्याभिः प्रेषितः । दौवारिकः । अध इं । राजा । तेन हि मवेश्यताम् । 12दैौवारिकः । । निष्क्रम्य पुनः करभकेण सह प्रविश्य ॥ करभआ । एसो भट्टा । उवसप्पदु भव । करभकः । । प्रणम्य च ॥ जअदु जअदु भट्टा । देवीओ विण्ण उपस्मृत्य । 15वेन्ति । राजा । किमाज्ञापयन्ति । करभकः । आगामिचदुदिअसे पुक्तपिण्डपारणो णाम उववासो भविस्सदि । 18तत्थ दीहाउणा अवस्सं अम्हे संभाविदव्वाओ ति । [0igitized by

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/४५&oldid=83541" इत्यस्माद् प्रतिप्राप्तम्