पृष्ठम्:Kalidasa's Śakuntala.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

23] द्वितीयो ऽङ्कः [-i. 14.5 हसितमन्यनिमित्तकथोदयम् । विनयवारितवृत्तिरतस्तया न मदनो विठ्ठतो न च संछतः ॥ १२ ॥ विदूषकः । किं णु क्खु दिट्टमेत्तस्स जेव भबदो अङ्क आरोहदु । राजा । सखीभ्यां मिथःप्रस्थाने पुनस्तत्रभवत्या मवि भूयिष्ठमाविष्कृतो 3 भावः । तथा हेि दर्भाडुरेण चरणः क्षत इत्वकाण्डे तन्वी स्थिता कति चिदेव पदानि गत्वा । आसीद्वित्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि दुमाणाम् ॥ १३ ॥ विदूषकः । गहिदपाधेओो केिदो सि ताए। ता अणुरतं तवोवणे तुमं तकेमि । राजा । सखे । चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः । 3 विदूषकः । को अवरो अवदेसो । यं भवं राआ । राजा । ततः किम् । विदूषकः । णीबारछट्टभाअं मे ताक्सा उवहरन्तु त् ि। 6राजा । मूर्ख । अन्यमेव भागमेते तपस्विनो निर्वपन्ति यो रजराशीनपि विहावाभिनन्यते । पश्व । यदुत्तिष्ठति वर्णेभ्यो नृषाणां क्षयि तद्धनम् । तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥ १४ ॥ नेपथ्ये । हन्त । सिद्धार्थौं खः । राजा। ॥ आकण्यै ॥ अये । धीरप्रशान्तः खरः । तत्तपखिभिर्भवितव्यम् । 3प्रविश्य दौवारिकः । जअदु जअदु भट्टा । एदे क्खु दुवे इसिकुमार आ पडिहारभूमेिं उवद्विदा । राजा । अविलम्बितं प्रवेशय । [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/४३&oldid=83539" इत्यस्माद् प्रतिप्राप्तम्