पृष्ठम्:Kalidasa's Śakuntala.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i.9.a-] 22 ललिताप्सरोभवं किल मुनेरपत्यं तदुज्झिताधिगतम् । अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥ ९ ॥ विदूषकः । ॥ विहस्य । भो । जधा कस्स वि पिण्डखज्जूरेहिं उब्वेइदस्स तिन्तिडिआए सद्धा भोदि तधा अन्तेउरइत्थीरदणपरिभोइणो भवदो इअं 3पत्थणा । राजा । सखे । न तावदेनां पश्यसि येन त्वमेवंवादी । विदूषकः । तं खु रमणीअं णाम जं भवदो वि बिम्हअं उप्पादेदि । 6राजा । वयस्य । किं बहुना । चिते निवेश्य परिकल्पितसर्वयोगा श्रूपोचयेन महता मनसा कृता नु । खीरत्रसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ १० ॥ विदूषकः । सव्वधा पञ्चादेसो क्खु सा रूववदीर्ण । राजा । इदं च मे मनसि वर्तते । अनाघ्रातं पुष्पं किसलयमललूनं कररुहै रनामुत्तं रत्रं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्वपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति भुवि ॥ ११ ॥ विदूषकः । तेण हेि लहुं लहुं गच्छदु भवं मा दाव सा तवस्सिणी कस्स वि इङ्गुदीतेलचिकणसीसस्स हत्थे णिवडिस्सदि । 3राजा । परवर्ती खलु तत्रभवती न च संनिहितगुरुजना । विदूषकः । अध तुह उवरि कीदिसो उण से चित्तराओ । राजा । वयस्य । स्वभावादप्रगल्भास्तपस्विकन्यकाः । तथापि अभिमुखे मयि संठ्ठतमीक्षितं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/४२&oldid=83538" इत्यस्माद् प्रतिप्राप्तम्