पृष्ठम्:Kalidasa's Śakuntala.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i.32. 1-] अभिज्ञानशकुन्तले प्रथमो ऽङ्कः [16 ॥ सर्वाः श्रुत्वा ससंभ्रममुत्तिष्ठन्ति ॥ राजा । अहो धिक्। कथमपराद्धस्तपस्विनामस्मि । भवतु तावत् । प्रतिगच्छामि। 3सख्यौ । महाभाअ । इमिणा हत्थिसंभमेण पज्जाउलाओो म्ह । ता अणुजाणाहि णो उडअगमणे । अनुसूया । ॥ शकुन्तलां प्रति ॥ हला सउन्तले । आउला अज्जा गोदमी 6भविस्सदि । ता एहि । सिग्धं एकत्थाओो होम्ह । शकुन्तला।॥ गतिसंरोधं रूपयित्वा। हद्धी हद्धी । ऊरुत्थम्भविअल म्हि संवुत्ता । राजा । खैरं खैरं गच्छन्तु भवत्यः । वयमप्याश्रमबाधा यथा न भवति 9तथा प्रयतिष्यामहे । सख्यौ । महाभाअ । विदिदभूइट्टो सि । णं संपदं जं उवआरमज्झत्थदाए अवरद्धाओ म्ह तं मरिसेसि । असंभाविदसकारं भूओ वि पञ्चवेक्खणणिमित्तं 12 सपरिहारं अज्जं विण्णवेमो । राजा । मा मैवम् । दर्शनेनैवात्रभवतीनां पुरस्कृतो ऽस्मि । शकुन्तला । अहिणवकुससूइपरिक्खदं मे चलणं कुरुवअसाहापरिलग्गं च 15मे वकलं । ता पडिवालेध मं जाव णं मोआवेमि । ॥ इति राजानमवलोकयन्ती सह् सखीभ्यां निष्क्रान्ता ॥ राजा । । निःश्वस्य । गताः सर्वाः । भवतु । अहमपि गच्छामि । 18शकुन्तलादर्शनादेव मन्दौत्सुक्यो ऽस्मि नगरगमनं प्रति । यावदनुयात्रि कानतिदूरे तपोवनस्य निवेशयामि । न खलु शक्तो ऽस्मि शकुन्तलाव्या पारादात्मानं निवर्तयितुम् । कुतः । गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ ३३ ॥ ॥ इति निष्क्रान्ताः सर्वे ॥ ॥ इत्याखेटको नाम प्रथमो ऽङ्कः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/३६&oldid=83532" इत्यस्माद् प्रतिप्राप्तम्