पृष्ठम्:Kalidasa's Śakuntala.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1.27.a-] अभिज्ञानशकुन्तले भव हृदय साभिलाषं संप्रति संदेहनिर्णयो जातः । आशङ्कसे यदभिं तदिदं स्पर्शक्षमं रजम् ॥ २७ ॥ शकुन्तला । ॥ सरोषमिव ॥ अणुसूए । गमिस्सं अहं । अनुसूया । किं णिमित्तं । 3३शकुन्तला । इमं असंबद्धप्पलाविणिं पिअंबदं अज्जाए गोदमीए गदुअ णिवेदइस्सं । । इत्युत्तिष्ठति ॥ अनुसूया। सहि । ण जुत्तं अस्समवासिणो जणस्स केिदसकारं 6 दिधिविसेसं उज्झिअ सच्छन्दो गमणं । ।॥ शकुन्तला उत्तरमदत्वैव प्रस्थिता । राजा । । अपवार्य ॥ कथं गच्छति । ॥ उत्थाय जिघृक्षुरिवेच्छां निगृह्य ॥ अहो । चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि अनुयास्यन्मुनितनयां सहसा विनयेन वारितमसरः । खस्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ।। २८ ।। प्रियंवदा । । शकुन्तलामुपसृत्य ॥ हला चण्डि । ण लब्भदि गन्तुं । शकुन्तला । ॥ परिवृत्य सभूभङ्गम् ॥ किं ति । 3 प्रियंवदा । दुवे मे रुक्खसे अणके धारेसि । तेहिं दाव अत्ताणअं मोआवेहेि तदो गमिस्ससि । ॥ इति बलान्निवर्तयति ॥ राजा । वृक्षसेचनादेवात्रभवतीं परिश्रान्तामवगच्छामि । तथा खस्याः स्रस्तांसावतिमात्रलोहितलौ बाहू घटोत्क्षेपणा दद्यापि स्तनवेपथु जनयति श्वासः प्रमाणाधिकः । बद्धं कर्णशिरीषरोधि वदने घर्माम्भसा जालकं बन्धे स्रसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ २९ ॥ तदहमेनामनृणां करोमि । । इत्यझुरीयकं ददाति । सख्यौ प्रतिगृह्य नामाक्षराणि वाचयित्वा च परस्परमवलोकयतः ॥ 3राजा । अलमन्यथासंभावनया । राज्ञः प्रतिग्रहो ऽयम् । 0.८०० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/३४&oldid=83530" इत्यस्माद् प्रतिप्राप्तम्