पृष्ठम्:Kalidasa's Śakuntala.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमो ऽङ्कः राजा। । समन्तादवलोक्य ॥ अकथितो ऽपि ज्ञायत एव यथायमाभोग 9स्तपोवनस्य । सूतः । कथमिव । राजा । किं न पश्यसि । इह हि अपि च । - -1. 14. [[C० नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणामधः मलिग्धाः कचिदिहदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किता ।। १३ ।। कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला भिन्नो रागः किसलयरुचामाज्यधूमोमेन । एते चार्वागुपवनभुवि च्छिन्नदर्भाडुरायां नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति ॥ १४ ॥ सूतः । सर्वमुपपन्नम् । राजा । । स्तोकमन्तरं गत्वा ॥ सूत । आश्रमोपरोधो मा भूत्तदिदैव रथं 3स्थापय याबदवतरामि । सूतः । धृताः प्रग्रहाः । अवतरत्वायुष्मान् । राजा । । अवतीर्यात्मानमवलोक्य च ॥ सूत । विनीतवेषप्रवेश्यानि तपोव 6नानि । तदिदं तावद्वङ्गतामाभरणं धनुश्च । ॥ इति सूतस्यार्पयति ॥ यावदा श्रमवासिनः प्रत्यवेक्ष्य निवर्तिष्ये तावदापृष्ठाः क्रियन्तां वाजिनः । सूतः । यथाज्ञापयसि । ॥ इति निष्क्रान्तः ॥ 9राजा । । परिक्रम्यावलोक्य च । इदमाश्रमपदम् । यावत्प्रविशामि । ॥ प्रविष्टकेन निमित्तं सूचयित्वा ॥ अये । 0.८०० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/२५&oldid=83520" इत्यस्माद् प्रतिप्राप्तम्