पृष्ठम्:Kalidasa's Śakuntala.djvu/२१

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्धम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १ ॥

नान्द्यन्ते सूत्रधारः । अलमतिविस्तरेण । ॥ नेपथ्याभिमुखमवलोक्य ॥ आर्ये । यदि नेपथ्यविधानमध्यवसितं तदिहागम्यताम् ।

प्रविश्य नटी । अज्ज । इअं म्हि । आणबेदु अज्जो को मिओओो अणु चिट्टीअदु ति ।

सूत्रधारः । आयें। अभिरूपभूयिष्ठा परिषत् । तस्यांच श्रीकालिदासग्रथितवस्तुना नवेनाभिज्ञानशाकुन्तलनान्ना नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधी यतां यत्रः ।

नटी । सुविदिप्पओोअदाए अजस्स ण किं पि परिहाइस्सदि ।
सूत्रधारः । ॥ सस्मितम् ॥ आयें । कथयामि ते भूतार्थम् ।

आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ २ ॥

नटी । एवं णेदं । अणन्तरकरणीभं दाणिं आणवेदु अज्जो ।

सूत्रधारः । आयें । किमन्यदस्याः परिषदः श्रुतिप्रसादहेतोगतादनन्तरकरणी यमस्ति ।

नटी । अध कदरं उण उर्दू समस्सइअ गाइस्सं ।

सूत्रधारः । आयें। नन्विममेव तावन्नातिचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमाश्रित्य गीयताम् । संमति हेि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/२१&oldid=181896" इत्यस्माद् प्रतिप्राप्तम्