पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

सकृदात्मप्रसूत्यैव निरुणद्धयखिलं भवम् । ध्वानमात्रनिरासेन न ततोऽन्यान्यथामतिः ॥ ५७ ॥ देशकालाद्यसम्बद्दाद्देशादमोहकायेत्तः । नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमरूयातः ॥ ५ b ॥ सम्यग्ज्ञानशिखिमुष्टमोहतत्कार्यरूपिणः । सकृन्निवृतेबध्यस्य किं कार्यमवशिष्यते ॥ ५९ ॥


ननु यदि सम्यग्बोधः स्वोत्पत्तिमात्रेणैव संसारं निवर्तयेत्तदैवं स्यान्न न्वेतदस्ति तस्यानादिकालप्रवृत्तमिथ्याज्ञानतत्संस्कारनिरासायाभ्यासापेक्षत्वात्तदवसरे च निवृत्तिविधीनामपि सावकाशत्वादित्यत आह सकृदिति । स्वोत्पत्तिमात्रेणाविद्यानिवर्तकत्वे गृहीतान्वयव्यतिरेकः'सम्यग्बोधः स्वोत्पत्तिमात्रेणाविद्यां निवक्र्तयंस्तदानीमेव मिथ्याज्ञानतत्संस्कारलक्षणं सकलमपि संसारं निवर्तयति न त्वऽभ्यासादिकमपेक्षत इत्यर्थः । कुतस्तदानीमेव मिथ्याज्ञानादिकं निवर्तयतीत्यत आह न ततो ऽन्येति । मिथ्याज्ञानादिरविद्याकार्यत्वान्नाविद्याती विलक्षणस्तस्मादवि द्यां निवर्तयन्बोधस्तदानीमेव मिथ्याज्ञानादिकं निवत्र्तयतीत्यर्थः ॥ ५७ ॥ ननु कथं सकृदेव सकलाज्ञाननिवर्तकं ज्ञानमुत्पद्यते यावता लोके प्रमाणज्ञानानां स्वदेशकालोपाधावेव स्वविषयाज्ञाननिवक्र्तकत्वं न तु सकलाज्ञाननिवर्तकत्वं दृश्यत इत्याशङ्कयाह देशकालेति । घटादीनां देशकालावस्थादिपरिच्छिन्नत्वाज्जडत्वाच्च तद्विषयज्ञानानां देशकालाद्यपेक्षया तत्तदज्ञानानिवर्तकत्वेऽप्यात्मनोऽविद्याकार्यदेशकालादिभिरसंस्पृ ष्टत्वात्स्वयंप्रभत्वाञ्च तत्रानिवृत्तमज्ञानान्तरं तन्निवृत्तयेऽपेक्षितमनुत्पन्न ज्ञानान्तरं वा नास्तीत्यर्थः । अनुत्पन्न ज्ञानमदग्धमज्ञानं वा नास्तीत्यन्वयः ॥ ५८ ॥ तस्मात्सम्यग्ज्ञानोत्पत्तौ सकलाशाननिवृत्तेर्न शेषशेषिभाव इति युःक्तमेवोक्तमित्युपसंहरति सम्यगिति । सम्यग्ज्ञानाग्निा दग्धाविद्यातत्कार्यस्वभावस्यात्मनः कार्य किंचिन्नावशिष्यते बाधयोग्यस्य सर्वस्य सकृदेव निवृत्तत्वात्ततश्च न शेषशेषिभाव इत्यर्थः ॥ ५९ ॥