पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

बुडावेव विवेकोऽयं यदनात्मतया भिदा । बुद्धिमेवापमृद्भाति कदलीं तत्फलं यथा ॥ १४ ॥ सोऽयमतत्खे तत्त्वदृक् । अनुमानप्रदीपेन हित्वा सर्वाननात्मनः। संसारेकावलम्बिन्या तदभावं धियेप्सति ॥ १५ ॥ योऽयमन्वयव्यतिरेकजो विवेक आत्मानात्मविभागल-


त्माकारज्ञानपरिणामाश्रयत्वाङ्गीकारादित्यर्थः । दाह्यदाहकतैकत्रेति । दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोरित्यत्राहङ्कारात्मनोराध्यासिकतादात्म्यादहङ्कारस्याचेतनस्यापि ज्ञातृत्वमुपपादितं तेनाहङ्कारपरिणामलक्षणं विवेकज्ञानमात्मन्यध्यारोप्यते तस्मान्नात्मनः कूटस्थत्वव्याघातो नापि केवलाचेतनस्य ज्ञानाश्रयत्वमित्यर्थः । विशिष्टाश्रयोऽपि विवेकज्ञानपरिणामो बुद्युपादानकत्वाडुद्धिगत एवात्मन्यध्यारोप्यते परमि त्याह बुद्धाविति । यदनात्मतया यस्या अनात्मतयात्मनः सकाशाद्वेदो ऽवगम्यते तस्यामेव बुद्धौ विवेक इत्यर्थः । कथं तर्हि तत्परिणामस्य तन्निवर्तकत्वमित्यत आाह बुद्धिमेवेति ॥ १४ ॥ एवं तर्हि यथोक्तविवेकेनैव बुच्चादिद्वैतप्रपञ्चस्य निवतितत्वात्कि वाक्येनेत्यत आह सोऽयमित्यादिना । आत्मानात्मनोय भेदेतरेतराभावौ तावप्यद्वैतविपरीतरूपत्वादतत्त्वमतस्तथाभूता विवेकधीरपि भ्रान्तिरेव द्वैतलक्षणसंसारकावलम्बनत्वात्तेन वाक्यार्थज्ञानं विना तयैव भेदेतरेतराभावावलम्बनया न संसारनिवृत्तिरिति भावः ॥ १५ ॥ ननु वाक्येनाप्यनात्माकारपरिहारेणात्मनोऽसाधारणाकारसमर्पणमेघ क्रियते नाधिकमेवमन्वयव्यतिरेकाभ्यामप्यनात्मपरिहारेणात्मासाधारणस्वरूपपरिग्रहणात्तत एव मुक्तिः किं न स्यात्कि वाक्येनेत्याशङ्कयाह योऽयमिति । यद्यपि देहाद्यनात्माकारपरिहारेणान्वयव्यतिरेकाभ्यामात्मा समप्यते तथाप्यनात्मभ्यो भेदेन समर्पणाद्वेदस्याखण्डैकरसप्रत्यगा-