पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
तृतीयोऽध्यायः ।

यदर्थं च प्रवृतं यद्वाक्यं तत्र न चेच्छ्रुतम् । प्रमामुत्पादयेतस्य प्रामाण्यं केन हेतुना ॥ १२२ ॥ अथ मन्यसे। जानीयाच्चेप्रसंख्यानाच्छब्दः सत्यवचाः कथम् । पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानावसंशयम्॥१२३॥ न च युक्तिशब्दावृत्तिलक्षणात्पसंख्यानाद्यथावत्प्रतिपतिर्भविष्यतीति सम्भावयामः । यस्मात् । युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् । साक्षादावर्तनाताभ्यां किमपूर्व फलिष्यति ॥ १२४ ॥


अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न शक्नो-


नङ्गीकारे तेषामप्रामाण्यं प्रसज्यतेति दोषमाह न चेदेवमित्यादिना॥१२२॥ ननु भवतु प्रामाण्यं तथापि तत्प्रसंख्यानविधिपरत्वेनैवेति शङ्कां दर्शयतीत्याह अथ मन्यस इति । उत्तरमाह शब्द इति । अन्यपरस्य वाक्यस्य प्रत्यक्षादिविरोधाद्वितीये ब्रह्मणि प्रामाण्यं न स्यादित्यर्थः । पुनः पूर्ववाद्याह पारोक्ष्यमिति । शब्दः संसृष्टपरोक्षार्थविषयत्वान्नापरोक्ष्यहेतुः शब्दयुक्त्यभ्यासरूपं तत्प्रसंख्यानं निर्विचिकित्सं ब्रह्मात्मत्वं साक्षादनुभावयिष्यतीति भावः ॥ १२३॥ तदुत्तरत्वेन श्लोकमवतारयति न च युक्तीति । युक्तिशब्दौ यदि पूर्वमपरोक्षप्रा न कुर्वाते परोक्षप्रमामेव कुरुतः पश्चात्कथमभ्यासात्तां कुर्वीयातां परोक्षतयानुमानाधिगतवह्नयादावभ्यासादापरोक्ष्यादर्शनादित्यर्थः ॥ १२४ ॥ नन्वावृत्तिरसकृदुपदेशादिति सूत्रकारेण शब्दयुक्त्यभ्यासरूपप्रसंख्यानस्य स्वीकृतत्वान्न तदन्तरेण वाक्यं बोधकमिति शङ्कित्वास्य ब्रह्मात्मवस्तुनो शानसाधनश्रवणमननादावेवावृत्तिः सूत्रकृताभ्युपगता तत्रा-