पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४९
तृतीयोऽध्यायः ।


अथ दृष्टान्तगतमर्थ दाष्टनिकायें समर्पयिष्यन्नाह । अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना । वेति नैकलमात्मानं नान्वेष्यं चात्र कारणम् ॥६५॥ नान्वेष्यं चात्र कारणमित्युतं तत्कस्मादिति चोदिते प्रयिाहान्वषणासाहष्णुत्वात् । तत्कयामत्याह । सेयं भ्रान्तिनिरालम्बा सर्वन्यायविरोधिनी । सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥ ६६ ॥ तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पति-


क्रम्य निवतितसमिदाहरणादिप्रयोजनाः प्रत्याहृत्यैकत्र मिलिताः सन्तः सर्वे वयं समागता न वेति विमृश्य परिगणनाय प्रवृत्तः कश्चित्स्वातिरिक्तान्नव पुरुषान्वीक्षमाणोऽपि तद्भतनवसंख्ययैवापहृतज्ञानो दशमी ऽऽसीत्याप्तवाक्यश्रवणं विना स्वात्मानं दशमोऽस्मीति विभ्रमाद्यथा न वेत्तीत्यर्थः ॥ ६४ ॥ अपविद्धेति । एवमपि संसारित्वेनाभिमतः प्रत्यगात्मा साक्षात्परमात्मस्वभावोऽपि सन्नज्ञानापहृतस्वभावत्वात्तत्त्वमस्यादिवाक्यमन्तरेणाहमस्मि परं ब्रह्मति न प्रतिपद्यत इत्यर्थः । ननु स्वयंप्रकाशाद्वयात्मनि कथमज्ञानमुपपद्यत इत्याशङ्कय दुनिरूपत्वेन प्रतिभासमात्रशरीरत्वाद्धेतुर्नान्वेषणीय इत्याह नान्वेष्यं चात्र कारणमिति ॥ ६५ ॥ सेयमिति । येयमात्मनः स्वरूपाप्रतिपत्तिविपरीतकर्तृत्वादिप्रतिपत्तिश्च सेयं भ्रान्तिलोकसिद्धपदार्थवत्कृतकारणशून्यात एव निरालम्बोचितालम्बनश्शून्या सर्वन्यायविरोधिनी च लोकप्रसिद्धपदार्थान्तरवत्सत्तायां स्थितौ प्रतीतौ च ये न्यायास्तेषां विरोधिन्यत एव विचारन्यायाघातं न सहते यथा तमः स्वनिवर्त्तकप्रकाशं न सहते तद्वदित्यथः ॥ ६६ ॥ तर्हि सकार्याशानस्य प्रमाणज्ञाननिवत्र्यत्वात्प्रत्यक्षादिमानान्तरादपि निवृत्तिसम्भवात्पुनरपि वाक्यानुपयोग इत्यत आह तस्याः खल्वित्या-