पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
तृतीयोऽध्यायः ।

ष्यदन्तरेणापि

वेदान्तवाक्यश्रवणमनननिदिध्यासनाएव सुषुप्तप्रतिपतेः सकलसंसारोच्छितिप्रसङ्गः । न च स्थानं न्यायमनिमोक्षप्रसङ्गान्न चान्य एव सुषुप्तोऽन्य एवोत्थित इति शक्यं वतुं नाद्राक्षामहं सुषुझेऽन्यकिञ्चिदपीत्युत्थितस्य प्रत्यभिज्ञादर्शनात् । तस्मानमभविष्यद्रागद्वेषघटाज्ञानादिवाप्रत्यक्षमभविष्यद्ययेह लोके घटं न जानामीत्यज्ञानमव्यवहितं प्रत्यक्षमम् । अत्रोच्यते । न । अभिव्यञ्जकाभावात् । कथमभिव्यञ्जकाभाव इति चेच्छण । बाह्यां वृतिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यया ।


कथनेन साधयति यदि हीति । नन्वस्तु सुषुप्तौ समूलसंसारोच्छेद इत्याशङ्कय मैवं पुनरुत्थानदर्शनादित्याह न च केवल्यादिति । ननु सुषुप्तौ मुक्त एव पुनरुत्थानं चान्यस्यैवेत्याशङ्कय सुषुप्तोत्थितयोः प्रत्यभिज्ञयैकत्वाभिगमान्मैवमित्याह न चान्य इति । ननु सुषुप्यवस्थायां साक्षिवेद्य चेदशानमभ्युपगम्यते तर्हि तत्कालेऽपि ब्रह्माज्ञानमिति विशेषाकारेण व्यवहार्य स्याद्रागद्वेषघटाशानानां साक्षिवेद्यानां जाग्रत्यपरोक्षत्वेन व्यवहारयोग्यत्वदर्शनादित्याशङ्कते ननु यदीति । निर्विकल्पकानुभवसिद्धस्याप्यस्य स्फुटाभिव्यक्षकोपाधेरन्तःकरणस्याभावान्न स्फुटप्रतिपत्तिर्यथाहङ्कारस्य निर्विकल्पकानुभवसिद्धस्य बाह्यघटादिविषयबुद्धिवृत्यनुदये स्फुटप्रतिपत्तिर्न सम्भवति तद्वदिति श्लोकमवतारयन्परिहरति अत्रोच्यत इत्यादिना ॥ ५८ ॥