इयं चावाक्यार्थप्रतिपतिरन्वयव्यतिरेकाभिज्ञयैव । य
यावद्यावनिरस्यायं देहादीन्प्रत्यगञ्चति ।
तावत्तावतदयोंऽपि त्वमर्थ प्रविविक्षति ॥ २१ ॥
कस्मात्पुनः कारणाद्देहाद्यनात्मावप्रतिपत्तावेवात्मा तद-
योऽयं सर्पः सा रज्जुरिति प्रयोगे सर्पः स्वरूपेण विवक्षारहितोऽध्यस्तत्वादेव परमार्थसम्बन्धशशून्यो रज्जुबुच्चा निरस्यमानोऽपि स्वाधिष्ठानभूताया रज्ज्वाः यद्वदुपलक्षणं भवति प्रतिभासमानसपकारानुवादमन्तरेणानवभासमानरज्वाकारस्याप्तवाक्यादवगमानुपपत्तेस्तद्वदहङ्कारो विवक्षारहितः सम्बन्धशून्यो बाध्यमानोऽप्यनवभासमानाद्वितीयप्रत्यगात्मनस्तस्मिन्नध्यस्तो लक्षणं भवति । अहमिति विपर्यासगृहीतस्य प्रत्यगात्मनस्तदनुवाद्व्यतिरेकेण वाक्यात्तत्त्वतः प्रतिपादनायोगादित्यर्थः । फलितमाह तथा तड्राधेनेति । यथा रज्जुप्रतिपत्त्या सप रज्जुरिति वाक्यार्थ सपश्रयात्सर्पबाधयैव प्रतिपद्यत एवं सोऽपि प्रत्यगात्माहं ब्रह्नोति वाक्यार्थमहङ्काराश्रयादहङ्कारबाधयैव प्रतिपद्यते । तस्माद्रह्माहंपद्योर्वे यधिकरण्यं नाशङ्कितव्यमितिभावः ॥ २७ ॥
एवं वाक्याद्वाक्यार्थप्रतिपत्तिर्भवतीत्युक्तम् । कथं तर्हि श्रुतवाक्यादपि केचित्तथा न प्रतिपद्यन्त इत्यत आह इयं चेति । आत्मैव सर्वावस्थास्वन्वयी व्यभिचारिणश्च देहेन्द्रियाद्य इत्यन्वयव्यतिरेकानुसंधानेन निवृत्तप्रतिबन्धानामेवावाक्यार्थपतिपत्तिरितरेषां तद्भावान्नोपपद्यते न तु वाक्यस्यासामथ्र्यादित्यर्थः । देहेन्द्रियप्राणमनोबुद्धच्यव्याकृतान्ताननात्मन आत्मत्वेन गृहीतानन्वयव्यतिरकाभ्यामुपायाभ्यां मुमुक्षुःस्थूलदेहादारभ्य यथा यथा निरस्यति तथा तथा तत्पदार्थोऽपि त्वंपदार्थाभेदावगत्यनुसारितया प्रवेष्टुमिच्छति विरोधिनः प्ररिच्छेदाभिमानस्य निरस्तत्वादिति श्लोकमवतारयति यस्मादिति ॥ २८ ॥ न्वारोपितसपदिनिवृत्तौ तदधिष्ठानस्य रज्ज्वादेः प्रतिपत्तिरेव लोके