पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


 त्वमित्यपि पदं तद्वत्साक्षान्मात्रर्थवाचि तु ।
 संसारितामसन्त्यज्य सापि स्यादभिधानजा ॥ २४ ॥
विरुद्धोद्देशनावाच पारोक्ष्यदुःखित्वयोरविवक्षितत्वमियाह ।
 उद्दिश्यमानं वाक्यस्यं नोद्देशनगुणान्वितम् ।
 आकाङ्कितपदार्थेन संसर्ग प्रतिपद्यते ॥ २५ ॥


वहितदेशकालत्वाद्युपाधिकं पारोक्ष्यमपरित्यज्यानुगतसामान्यादेरभा वाडहूनामर्थानां पारोक्ष्यतया प्रतिपत्त्युपाधौ प्रतिपाद्कं लोके दृष्टम् । तस्मात्पारोक्ष्यमभिधानोत्थमेव शब्दादापाततः प्रतीयते न च वस्तुसंस्पशि भवति नापि प्रतिपिपादयिषितम् ॥ २३ ॥

 तथा तत्पदवत्वमित्यपि पदं स्वप्रवृत्तेः प्रागेव शब्दात्सिद्धां संसारितामसंत्यज्य साक्षान्मात्रर्थवाचि भवत्यव्यवहिततया नित्यमपरोक्षतास्वभावमात्रे श्रोतरि बुद्धिमुत्पादयति । अतः सापि संसारिता अभिधानजा आपाततः शब्दोत्थानवस्तुसंस्पशिनी नापि शब्दप्रतिपाद्या तत्प्रतिपत्तेः प्रागेव सिद्धत्वात्तत्प्रतिपादने पुरुषार्थाभावात्प्रतिपिपादयिषितवाक्यार्थविरोधाचेत्यर्थः ॥ २४ ॥

 इतश्ध पारोक्ष्यसंसारित्वयोरविवक्षितत्वमित्याह विरुद्धेति । उद्देशनं प्रसिद्धरूपनिर्देशनं विरुद्धमुद्देशनमनयोरिति विरुद्धोद्देशनौ पदार्थों तयोर्भावस्तत्वं तस्मादपि तद्भतयोर्विरुद्धरूपयोरविवक्षितत्वमुत्तरश्लोकेनोच्यत इत्यर्थः । उद्दिश्यमानमिति । तत्त्वमसिवाक्यगतमुद्दिश्यमानं त्वंपदार्थात्मकं वस्तूद्देशनगुणेनोद्देशनदशायां प्रतीयमानेन संसारित्वगुणेनान्वितं विशिष्टमाकाङ्कितपदार्थेन विधित्सितेन सकलसंसारहितेन संसर्गमन्वयं न प्रतिपद्यते । एवं तत्पदार्थोऽप्युद्दिश्यमानः पारोक्ष्यादिविरुद्धगुणान्वितो नित्यापरोक्षप्रत्यगात्मना त्वंपदार्थेनान्वयं न प्रतिपद्यते तेनोभयत्रापि विरुद्धधर्मयोरविवक्षितत्वमिति श्लोकार्थः॥२५