सामग्री पर जाएँ

पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
द्वितीयोऽध्यायः ।


द्रष्ट्रादेरसाधारणरूपज्ञापनायाह ।
 बाह्य आाकारवान् ग्राह्यो ग्रहणं निश्रयादिमत् ।
 अन्वयहमिति ज्ञेयः साक्षी त्वामा धुवः सदा ॥१०७॥
सर्वकारकक्रियाफलविभागात्मकसंसारशून्य आामेति
कारकक्रियाफलविभागासाक्षित्वादात्मनस्तदाह ।
 ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् ।
 हानोपादानयोः साक्षी हानोपादानवर्जितः ॥१०॥


 द्रष्ट्रादिव्यतिरिक्त आत्मा नास्माकं प्रसिद्ध इति परमतमाशङ्कय लक्षणं तस्योपपादनायाह द्रष्ट्रादेरिति । बाह्यः पराग्भूत आाकारवान्पृथुबुभ्रोदरत्वादिधर्मवान्ग्राह्यः । तदुक्तं वात्तिकेऽपि । “विभिन्नो बहिराभाति जातिरूपक्रियादिमान् । विभिन्नोऽनुभवादेव ज्ञातुशनात्स गोचर” इति। एकस्मिन्नेव ज्ञातरि निश्चयस्मृत्यादिविभागवत्वेन ज्ञातृकर्तृकं यदाभाति तङ्गद्वहणम् । तदुक्तम् । “स्मरणादिविभागेन ज्ञातर्येकत्र यत्पृथक् । प्रथतेऽनेकरूपाभं तद्भानं ज्ञातृकर्तृकमिति'। अहं श्रृणोम्यहं निश्चिनोम्यहं स्मरामीति च निश्चयादिषु व्यभिचारिषु योऽहंरूपेणान्वेति प्रत्यभिज्ञया एकत्वेनानुसन्धीयते स द्रष्टा । तदुक्तम् । “स्मृतिनिश्धितिसंशीतिरागादिहिरुगात्मसु । अहंरूपेण योऽन्वेति स प्रमाता परो मत' इति । साक्षी यः पुनरेषां त्रयाणां भावाभावसाधकः सुषुप्तिकैवल्यादिष्वन्वयी कूटस्थनित्यः स परैरपि बलादभ्युपेयोऽन्यथा द्रष्ट्रादेरसिद्धेरितिभावः ॥ १०७ ॥

 साक्षित्वेनासंसारित्वमप्यात्मनः प्रसाधितमित्याह सर्वकारकक्रियेति । सर्वकारकक्रियाफलविभागात्मकसंसारशून्य आत्मेतिगम्यत इतिशेषः । यद्वा । इतिशब्दो हेत्वर्थः कारकक्रियाफलविभागसाक्षित्वादित्युत्तरेण सम्बध्यते । ग्राहकेति। ग्राहकादीनां त्रयाणां विभागेषु त्रिष्वपि स्फुरणरूपेणाविभागवान्यस्तेषां हानोपादानयोर्भावाभावयोः साक्षी स तत्साक्षित्वादेव स्वयं हानोपादानलक्षणसंसारवर्जित एव भवतीत्यर्थः ॥ १०८