उत्पतिस्थितिभङ्गेषु कुम्भस्य वियतो यथा ।
नोत्पतिस्थितिनाशाः स्युर्बुद्धेरेवं ममापि च ॥ ७९ ॥
सुखदुःखतासम्बन्धानां च प्रत्यक्षत्वान श्रद्धामात्रग्राह्य
सुखदुःखादिसम्बद्दां यया दण्डेन दण्डिनम् ।
राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ॥ ४० ॥
एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् ।
येनैवास्या भवेद्योगः सुखकुम्भादिना धियः ।
तं विदन्ती तदैवान्यं वेति नातो विकारिणी ॥ १ ॥
सर्वस्मिन्निति । प्रमाणतन्निभेषु प्रमाणतदाभासेषु बुद्धिपरिणामेषु व्यभिचारेिषु तदनुयायिनः संविद्रपस्य साक्षिरूपस्य मम नोच्छित्तिः सम्भवति । उच्छेदसाक्षित्वेनापि स्फुरणात्ततो मध्यतिरितं यन्मत्संम्बन्धितया प्रतीयते तदुच्छिद्येत नात्मेत्यर्थः ॥ ७८ ॥
उक्तमेवार्थ दृष्टान्तेनोपपादयति उत्पत्तीति । बुद्धेरेवमिति । बुद्धेरुत्पत्यादौ ममोत्पत्यादिनस्तीत्यर्थः ॥ ७९ ॥
सुखदुःखादिपरिणामानामनात्मधर्मत्वमप्यनुभवसिद्धमित्याह सुखदुःखेति । सुखदुःखादेरहङ्कारसम्बन्धोऽहं सुखीत्यादिप्रत्यक्षसिद्धमित्याह
सुखदुःखादिसम्बद्धामिति । यथा दण्डेनासंहतस्तटस्थ एव सन्कश्चिद्राधकः साधको द्रष्टा दण्डिनं वीक्षते तद्वदयमपि साक्षी सुखादिधर्मविशिष्टां बुद्धिं सुखादिभिरसंहतस्तटस्थ एव सन्वीक्षत इत्यर्थः ॥८०॥
बुद्धेः परिणामित्वेनातीतानागतेहत्यानिति सूचितं क्रमद्रष्टत्वं कतिपयद्रष्टत्वं च प्रपञ्चयति एतस्माच्चेति । यदा बुद्धिबहोन कुम्भादिनान्तरेण सुखादिना च सम्बद्धा सती कुम्भादिकं वेत्ति तदैव पटादिकं दुःखादिकं च न वेत्ति ततो बुद्धिर्विकारिणीत्यर्थः ॥ ८१ ॥