पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
प्रथमोऽध्यायः ।

न शक्यन्ते परित्यक्तमम् । अयारब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तम् । किं कारणम् । अनिवृतेः ।
अनिवृतं हि चिकीर्षितं कर्म शक्यते यतुं प्रवृतिनिवृती
प्रति कर्तुः स्वातन्त्र्यात् । निवृते तु कर्मणि तदसम्भवादुरनुष्ठेयः प्रतिज्ञातार्थः । अशक्यप्रतिज्ञानाच्च । न च
शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि प्रतिषिद्धानि च
कर्माणि न करिष्यामीति सुनिपुणानामपि सूक्ष्मापराधदर्शनात् । प्रमाणाभावाच्च । न च प्रमाणमस्ति मोक्षकामो नित्यनैमितिके कर्मणी कुर्यात्काम्यप्रतिषिद्धे च
वर्जयेदारब्धफले चोपभोगेन क्षपयेदिति । आनन्याञ्च ।
न चोपचितानां कर्मणामियतास्ति संसारस्यानादित्वात् ।
न च काम्यैः प्रतिषिद्वैर्वा तेषां निवृतिरस्ति शुद्धयशुद्धिसाम्ये सत्यविरोधादित्यत आह ।
 न कृत्स्रकाम्यसन्त्यागोऽनन्तत्वात्कर्तुमिष्यते ।


गम्यत इति प्रकारद्वैविध्यं दशितमित्यर्थः । अस्तु द्वाभ्यां प्रकाराभ्यां

निवृत्तिस्ततः किमित्यत आह तत्र यानीति । तान्येव विशिनष्टि अनारब्धेति । अनारब्धानां कर्मणामनुपस्थितत्वादेव निवर्तनायोगादित्यर्थः। तह्यरब्धफलानि त्यज्यतामित्याशङ्कय परिहरति अथेत्यादिना । अनिवृ तेरित्युपभोगप्रायश्चित्ताभ्यां विना निष्पन्नस्यानिवृत्तेरित्यर्थः । एतदेव व्यतिरेकमुखेनोपपादयति अनिवृत्तं हीति । तद्सम्भवात्स्वातन्त्र्यासम्भवात् । अथानुष्ठानस्यैव परित्याग इति द्वितीयं पक्षं प्रत्याह अशक्यप्रतिज्ञानाचेति । किमिति न शक्यत इत्यत आह सुनिपुणानामिति । पुनरप्यनुष्ठितानां परित्यागपक्षं दूषयति आनन्त्याञ्चेति । तदेव प्रपञ्चयति न चेति । न*न्वख्त्रमस्त्रेण शाम्यती'ति न्यायेन कांस्यैः काम्यानां निषिद्धे-