पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
प्रथमोऽध्यायः ।

 दग्धाखिलाधिकारश्रेङ्कह्मज्ञानाग्निा मुनिः ।
 वर्तमानः श्रुतेन् िनैव स्याद्वेदकिङ्करः ॥ ४० ॥
अथेतरो घनतराविद्यापटलसंवीतान्तःकरणोऽङ्गीकृतकर्तृवाद्यशेषकर्माधिकारकारणो विधिप्रतिषेधचोदनासन्दंशोपदष्टः कर्मसु प्रवर्तमानः ।
 शुभैः प्राशोति देवाचं निषिद्वैनरक गतिम् ।
 उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ ४१ ॥
आब्रह्मस्तम्बपर्यन्ते घोरे दुःखोदधौ घटीयन्त्रवदारोहावरोहन्यायेनाधममध्यमोत्तमसुखदुःखमोहविद्युच्चपलसम्पातदायिनीर्विवित्रयोनीश्चण्डोपिञ्जलकश्वसनवेगाभिहताम्भोधिमध्यवर्तिशुष्कालाबुवच्छुभाशुभव्यामिश्रकर्मवायुसमीरितः ।


त्याह यस्मादिति । दग्धेति । अधिक्रियते कर्मण्यनेनेत्यधिकारो ब्राह्मण्याद्यभिमानः । वर्तमानः श्रुतेर्मुध्रि प्रतिपाद्यतया ब्रह्मरूपेण ॥ ४० ॥

 यः पुनर्वेदकिङ्करोऽविद्यान्वयेन संसारान्वयी दशितस्तस्य संसारप्रकारं वैराग्योत्पादनायाह अथेतर इति । अङ्गीकृतं कर्त्तत्वभोत्कृत्वब्राह्मण्यादिलक्षणं कर्माधिकारे कारणं येन स तथोक्तः । विधिप्रतिषेधचोदनाभ्यां परिगृहीतश्चोदनाविषये कर्मणि प्रवर्तमानः पूर्वं पूर्वमुत्तरस्योतरस्य हेतुः शुभैरिति । “पुण्येन पुण्यं लोकं जयति पापेन पापमुभाभ्यामेव मनुष्यलोकमि'त्यस्याः श्रुतेरथोऽनेन व्यक्तीकृतः । अवशः कामकमर्मादिपरतन्त्र इत्यर्थः ।॥ ४१ ॥

 उत्तरश्लोकगतस्यैवंशब्दस्यापेक्षितमर्थ प्रदर्शयन्नेव संसारगतिमेव प्रदर्शयन्संसारमेव प्रपञ्चयति आब्रह्मोति । योनीश्वङ्कम्यमाण इति श्लोकगतेन पदेन सम्बन्धः । ता एव योनीर्विशिनष्टि अधमेति । अधममध्यमोत्तमा ये सुखदुःखमोहास्तेषां विद्युञ्चपलो यः संपातः संपर्कस्तं दातुं