पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


यस्माज्ज्ञानाभ्युपगमानभ्युपगमेऽपि न ज्ञानान्मुक्तिः ।
 अतः सर्वाश्रमाणां हि वाङ्झनःकायकर्मभिः ।
 स्वनुष्ठितैर्यथाशक्ति मुक्तिः स्यान्नान्यसाधनात् ॥२१॥
असदर्यप्रलापोऽयमिति दूषणसम्भावनायाह ।
 इति हृष्टधियां वाचः स्वप्रज्ञाध्मातचेतसाम् ।
 घुष्यन्ते यज्ञशालासु धूमानद्वधियां किल ॥ २२ ॥


द्वेदोभयं सहे'ति वाक्येन तयोज्ञानकर्मणोः समप्रधानतया वा परस्परं सम्बन्धस्य समुच्चयस्येह कैवल्ये फले सिद्धेः सत्यपि ज्ञाने समुञ्चितस्य

कर्मणः कैवल्यसाधनत्वे कश्चिदपि दोषो नास्तीत्याह कर्मण इति ॥ २० ॥  कर्मनिरपेक्षं ज्ञानं मुक्तिसाधनं न भवतीत्युक्तार्थोपसंहारभूतोत्तरश्लोकगतातःशब्दपरामृष्टं हेतुं दर्शयति यस्मादिति । नान्यसाधनात्केवलाज्ज्ञानान्न मुक्तिः स्यादित्यर्थः ॥ २१ ॥

 प्रदर्शितं पूर्वपक्षमुपहसितुमुत्तरश्लोक इत्याह असदर्थेति । एवंविधाः पूर्वोक्ता वाचो यज्ञशालासु घुष्यन्ते किलेतिसंबन्ध । वत्कृद्वारा वाचां दूषणं संभावयति इति हृष्टाधियामिति । वित्तपुत्रकलत्रादिपरित्यागपुरःसरं ज्ञाननिष्ठालक्षणबहुलायासमन्तरेण कर्मभ्य एव स्वर्गापवर्गावस्माकं सुखेनैव सिध्यत इति हृष्टा धीर्येषां तेषाम् । एतावता कथं तद्वचसाममित्यत आह स्वप्रज्ञेति । स्वकीया प्रज्ञा युक्तयुपदेशबहिष्कृता संसारस्य कर्मनिमित्तत्वात्तत्परिहारेण परिहारः स्यादिति केचलोत्प्रेक्षालक्षणा तयाध्मातमुपबृहितं चेतो येषां ते तथोक्ताः । तत्प्रज्ञाया यथार्थत्वाभावे श्रुतिस्मृतिलिङ्गानि सन्तीति सूचयति धूमानद्धेति । धूमेनानद्धा प्रतिबद्धा सम्यग्ग्रहणे धीर्येषां ते धूमानद्धधियः । एवं हि श्रौतानि स्मात्तनि च लिङ्गानि दृश्यन्ते । “अझिमुग्धो हैव धूमतान्त स्वं लोककं न प्रतिप्रजानाति ’ “प्वा ह्येते अदृढा यज्ञरूपाः” “न तं विदाथ य इमा जजान” “अविद्यायामन्तरे वर्तमानाः” “यामिमां पुष्पितां