पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


स्यात्प्रवृतिरन्तरेणापि विधिं लोकवदिति चेतन्न यतः ।
 अन्तरेण विधिं मोहाद्यः कुर्यात्साम्परायिकम् ।
 न तत्स्यादुपकाराय भस्मनीव हुतं हविः ॥ १६ ॥
अभ्युपगतप्रामाण्यवेदार्थविजैमिन्यनुशासन


 ननु ज्ञानादज्ञाननिवृत्तेरन्वयव्यतिरेकसिद्धत्वात्किमत्र विधिनेति शङ्कते स्यात्प्रवृत्तिरिति । सत्यमज्ञाननिवृत्तिमात्ररूपं चेत्कैवल्यं तदैवं स्यान्न त्वेवम् । अशरीरत्वलक्षणस्य कैवल्यस्य देहपातोत्तरकालीनत्वेनादृष्टफलत्वाज्ज्ञानस्यान्वयव्यतिरेकाभ्यां तत्साधनत्वावगमानुपपत्तेजीवन्मुक्तश्च परिभाषामात्रत्वादिति श्लोकेन परिहरति तन्न यत इति । साम्परायिकं पारलौकिकं कर्म ॥ १६ ॥

  न केवलं युक्तिभिरेव किंत्वाप्तवाक्यादपि वस्तुपरत्वं वेदस्य न सिध्यतीत्याह अभ्युपगतेति । अभ्युपगतं प्रामाण्यं यस्य सोऽभ्युपगतप्रामाण्यः स चासौ वेदार्थविचेति समासः । तस्य जैमिनेरनुशासनाद्धाक्यादित्यर्थः । आस्रायस्य वेदस्य क्रियार्थत्वात्कार्यपरत्वादितोऽन्यथा क्रियार्थत्वेऽसल्यानर्थक्यं “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि'तिवदता दशितमित्यर्थः । साटोपं ससंभ्रममाहेति क्रियाविशेषणम् ॥ १७ ॥

 वेदवचनादप्येवामित्याह मन्त्रवर्णाच्चेति । अध्यात्माधिकारे पठितोऽयं मुमुक्षोरपि निःशेषमायुः कर्मणि कर्मानुष्ठान एवावासृजदुत्सृष्टवान्विनियुक्तवान् यावज्जीवं कर्मेव कर्तव्यमिति दर्शितवानित्यर्थः ॥ १८ ॥