पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ३ ]
२१
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम्

वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ॥ [१]तलैः शुशुभिरे तानि [२]भवनान्यत्र रक्षसाम् ॥ ५३ ॥
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ॥ लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् ॥ ५४ ॥
अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ॥ आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५५ ॥

[३]पाण्डुरोद्विद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम् ॥
यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः [४]समावृताम् ॥ ५६ ॥
चन्द्रोपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् ॥
जोत्स्नावितानेन वितत्य लोक[५]मुत्तिष्ठते नैकसहस्ररश्मिः ॥ ५७ ॥
शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् ॥
ददर्श चन्द्रं स [६]हरिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥ ५८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥ २ ॥


तृतीयः सर्गः ॥ ३ ॥

लङ्काभिमानिन्यामहाराक्षस्या निशि लङ्कांप्रविशतोहनुमतः प्रत्यक्षीभूय साधिक्षेपंप्रतिषेधनपूर्वकं स्वपाणितलेन ताडनं ॥ १ ॥ ततोहनुमता नारीतिकरुणया वाममुष्टिनामन्दंताडने पतितविह्वलयातया तंप्रति कपिना स्वपराजयेसति लङ्काविनाशप्रतिपादकब्रह्मवचननिवेदनेन नगरान्तःप्रवेशाभ्यनुज्ञानं ॥ २ ॥

स लम्बशिखरे लम्बे लम्बतोयदसन्निभे ॥ सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ॥ १ ॥


ग्यं तलमुच्यते । सप्त भूमयो येषां ते सप्तभूमाः । "कृष्णोक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते" इत्यच् समासान्तः । एवमष्टभूमा: । सप्तभूमादिशब्देन तादृशाः प्रासादविशेषा उच्यन्ते । यद्वा प्रासादैरिति शेषः । तैरुपलक्षितां ॥ ५२-५४ ॥ विषण्णः हृष्टश्चेति । अचिन्त्या दुष्प्रवेशेति च विषण्णः । यतोद्भुताकारा अतो विस्मयनीयतया हृष्टः ॥ ५५ ॥ स इति पूर्वश्लोकेनायमेकान्वयः । सुधाधवलनिम्रोन्नतविमानाकारभवनमालिनीमित्यर्थः ॥ ५६ ॥ इदानीं

चन्द्रोदयकाल इत्याह---चन्द्रोपीति ॥ मध्यगतः सन्निधानात्तारागणमध्यगतः । तारागणैरिति सहयोगे तृतीया । ज्योत्स्नावितानेन लोकं वितत्य व्याप्य । उत्तिष्ठते आविर्भवातेि स्म । "उदोनूर्ध्वकर्मणि" इत्यात्मनेपदं ॥ ५७-५८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥


 लम्बे लम्बाख्ये। लम्बशिखरेलम्बगिरिशिखरे इति


 रामानु० सपाण्डुरेत्यस्यदृष्ट्वेति पूर्वेणसंबन्धः । पाण्डुरोद्विद्धविमानमालिनीं सुधाधौतोन्नतसप्तभूमगृहमालिनीं । "विमानोस्त्री..देवयानेसप्तभूमेचसद्मनि" इतिवैजयन्ती ॥ ५६ ॥ ति० मध्यगतःखमध्यगतः । अनेकसहस्रेत्यनेनपूर्णत्वं । अनेकेत्यस्यैवसहस्रे..पनेनविवरणं । उत्तिष्ठते आर्षस्तङ् । ज्योत्स्नावितानेनलोकान्वितत्यआवार्यसम्यगवलोकनसाधनतयाअस्यहनूमतःसाचिव्यंसाहा..य्यंकुर्वन्निव ॥ ति० ननुखमध्यगतस्यप्रदोषेउदयोष्टम्यांनतदापूर्णत्वं । पूर्णस्यतुनखमध्यगतस्योदयइतिचेन्न । शुक्लैकादश्यांखमध्य..मीपगतत्वेनमध्यगतत्वोपचारात् । पूर्णत्वंचपूर्णकल्पत्वेनव्यवहृतं । यद्वानेकन्यूनाः सहस्रंरश्मयोयस्येतिमध्यमपदलोपितत्पुरुषग..बहुव्रीहिः । अतएवरात्रिशेषेहनूमत्यशोकवनिकास्थेसीतासविधेरावणस्यागमनकालेदीपिकावर्णनंकृतं । तेनहितदाचन्द्रास्तानु..नं । साचेयंमार्गशीर्षस्य । फाल्गुनेलङ्कांप्रविष्टायाःसीतायाः "वर्ततेदशमोमासोद्वौतुशेषौप्लवङ्गम" इतिहनूमन्तंप्रतिवचनात् । ..रणदिनएवचसीतायालङ्काप्रवेशनंरामभयादितिस्पष्टमेव । रामानु० सागरमैनाकदिवाकरादिवच्चन्द्रोपिसाचिव्यंकुर्वन्प्रादुरभूदित्य..पेशब्देनावगम्यते ॥ ५७ ॥ इतिद्वितीयःसर्गः ॥ २ ॥

 रामानु० पूर्वसगॉक्तलङ्काप्रवेशोपक्रमंविस्तरेणाह । सलंबशिखरइत्यादिना । सः सागराशतरणेनप्रसिद्धः । महासत्वःसमुद्र

  1. ङ. झ. ट. तैस्तैःशुशुभिरे.
  2. घ. भवनान्यपि.
  3. ङ. छ. ज. झ. ट. पाण्डराविद्ध.
  4. झ. ट. सुपालितां. क. दुरासदां.
  5. ङ.---ट. लोकानुत्तिष्ठते.
  6. क.---ट. कपिप्रवीरः.