पृष्ठम्:लघुभास्करीयम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः भास्कराय नमस्तस्मै' स्फुटेयं ज्योतिषां गतिः । प्रक्रियान्तरभेदेऽपि यस्य गत्याऽनुमीयते ।। १ ।। काले महति देशे वा स्फुटार्थ यस्य दर्शनम् । जयत्यार्यभटः सोऽब्धिप्रान्तप्रोल्लङ्घिसद्यशाः' ।। २ ।। नालमार्यभटादन्ये' ज्योतिषां गतिवित्तये । तत्र' भ्रमन्ति तेऽज्ञानबहलध्वान्तसागरे ।। ३ ।। नवाद्रयकाग्निसंयुक्ताः* शकाब्दा द्वादशाहताः । चैत्रादिमाससंयुक्ताः पृथग्गुण्या' युगाधिकैः ॥ ४ ॥ ते च षट्त्रिकरामाग्निनवभूतेन्दवो युगे । भागहारोऽब्धिवस्वेकशराः स्युरयुताहताः ॥ ५ ॥ अधिमासान्पृथक्स्थेषु प्रक्षिप्य त्रिशताहते । युक्त्वा' दिनानि यातानि प्रतिराश्य युगावमैः ।। ६ ।। सङ्गुणय्या'"'म्बराष्टेषुद्वयष्टशून्यशराश्विभिः । छेदः खाष्टवियद्व्योमखखाग्निखरसेन्दव ' ।॥ ७ ।।

  • नमस्तुभ्यं B, P . * प्रक्रियातदभेदेऽपि A. 3 स्फुटार्था A. ४ सोऽब्धिप्रान्तप्रोल्ला

घिसद्यशाः A. Udaya Divakara refers to the readingए वार्धि in place of सोऽब्धि. * अलमार्यभटादन्ये B. ६ यत्र A, C. ७ ते ज्ञानबहुलभ्रान्तिसागरे A.

  • नवाद्येकाग्निसायुक्ता A; नवाद्रीन्द्वग्निसंयुक्ता: C. * पृथ ************ D. *** युङ क्त्वा C.

११ सगुणस्या A. १ *३ काष्ठविय० A. The second line of this verse is missing from D.