पृष्ठम्:न्यायमकरन्दः.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२. न्यायमकरन्दे मू०-तटस्थरजतानुस्मरणं तु कथमिदंकारास्पद् स्योपकारहेतुभावमनुमापयेद्, रजतत्वहेतोरपक्षधर्मत्वात्। तस्मादिदंकारास्पदे रजतार्थिनः प्रवृत्तिस्नेहादेव रजता तत्सिद्धमेतद् विवादाध्यासितं रजतविज्ञानं परोव र्तिवस्तुविषयं रजतार्थिनस्तत्रनियमेनप्रवर्तकत्वादुभय वादास्पद्रजतविज्ञानवदिति ॥ टी०-- * तटस्थ' इति । * अपक्षधमेत्वाद्' इति, पुरोवर्तिनि रजतसमारोपाभावेन रजतत्वहेतोस्तत्राप्रवृत्तेरित्यर्थः । समारोपे प्रमाणमाह -“तत्सिद्धम्” इति, सम्यग्रजत झाने सिद्धसाधनतापरिहारार्थ विवादास्पद-पदं, रजतोपायज्ञानेऽनै कान्तिकतापरिहारार्थ नियमेनेति विशेषणम्; अपुरोवर्तिविषयरज तज्ञाने व्यभिचारवारणाय तत्रेति विशेषणं, दिक्कालाऽदृष्टेषु प्रवृ त्तिकारणेषु व्यभिचारनिवारणार्थ ज्ञानत्वादित्यवगन्तव्यं* ॥ नन्वेवमपि रजतग्रहणं स्मरणं वा पक्ष, आद्ये हतोराश्रयासिद्धिः, प्राभाकरेण ख्यात्यनङ्गीकारादू, द्वितीये त्वन्यथाख्यातिवादिनः स एवं दोषः तेन पुरोवर्त्तिविषयस्मरणानऽभ्युपगमादू, उभयवादिसं प्रतिपन्नायथार्थव्यवहारजनकज्ञानं पुरोवर्तिविषयमितिप्रतिज्ञाकरणे नोभयविधदोषनिस्तार इत्यपि न, ग्रहणस्मरणयोरुभयोरप्यययाव्यव हारजनकत्वमितिमते ग्रहणस्य पुरोवर्तिविषयतया सिद्धसाधनत्वा दिति चेदू, मैवं, िववादाध्यासितो विसंवादिव्यवहारः पुरोवर्तिवि षयरजतज्ञानजन्यः पुरोवर्तिविषयरजतव्यवहारत्वाद् अविसंवादि रजतव्यवहारवद्, इतिप्रयोगस्य विवक्षितत्वाद्, नचाविसंवादि

  • पुरोवत्तिविषये नियमन प्रवर्तकज्ञानत्वाद् इति हेतुकलेवरमाश्रयणीयमित्यर्थः ।

हेतेराश्रयासिद्धिरित्यर्थः ।