पञ्चमः प्रकाश:
काकुलक्षणम्
साकाङ्क्षा च निराकाङ्क्षा चेति काकुर्द्विधा भवेत् ।
अनिर्युक्ताक्षरा वाणी साकाङ्क्षेति निगद्यते ॥ १ ॥
निर्युक्ताक्षरसंयुक्ता निराकाङ्क्षा भवेदिह ।
अल्पैरव्यक्तमुक्ता तु दुर्विज्ञेयतयापि च ॥ २ ॥
रसस्सस्मेरमस्माभिस्सम्यगेव विचार्यते ।
रसस्वादुता
विभावैरनुभावैश्चसात्विकैर्व्यभिचारिभिः । । ३ ।।
स्वादुत्वं नीयमानोऽसौ स्थायिभावो रसो भवेत् ।
निरन्तररसव्यापी सदैव रसपोषकृत् ॥ ४ ॥
सोऽपि हेतुस्तदुत्पत्तेर्विभाव इति कथ्यते ।
विभावः कोऽपि शारीरो भावसंसूचनात्मवान् ।। ५ ।।
अनुभाव इति प्राज्ञैराज्ञातो भरतादिभिः ।
सुखदुःखादिभिर्भावैरनुकारिण्यवस्थितैः ।। ६ ।।
निरन्तरसमुद्भेदैः भावस्तद्भावभावनम् ।
यद्यप्याकुलयन्त्युच्चैरनुभावादभिन्नताम् ॥ ७ ॥
पृथगेव भवन्त्येते भावास्सर्वत्र सात्त्विकाः ।
सात्त्विकाः
स्तम्भप्रलयरोमाञ्चस्वेदवैकर्ण्यवेपथूः ॥ ८ ॥
पृष्ठम्:साहित्यसारः.pdf/50
पुटमेतत् सुपुष्टितम्