अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ।
एते दश गुणाः प्रोक्ताः काव्यबन्धे कवीश्वरैः ।। ८४ ।।
सुश्लिष्टपदसन्धानं श्लिष्टमित्यभिधीयते ।
यस्यार्थस्स प्रसादः स्यादनुक्तोऽपि प्रतीयते ॥ ८५ ॥
शब्दार्थौ समताऽन्योन्यं सालङ्कारौ सुसंस्कृतौ ।
अप्युक्तं बहुशश्चेतःप्रीतिकृन्मधुरं मतम् ॥ ८६ ।।
पदैर्मृदुभिराकीर्णं सुकुमारमिहोदितम्।
अर्थव्यक्तिः पदोद्देशात् समस्तार्थावबोधिनी ।। ८७ ॥
तदुदारत्वमासाद्य यन्मनो नापसर्पति ।
ओजस्समासबहुलस्सन्दर्भस्सुमनोहरः ॥ ८८ ॥
सुखोच्चारणता कान्तिस्सन्धिसन्तानसंपदा ।
समाधिरन्यथाशब्दकल्पनीयार्थसञ्चयः ॥ ८९ ॥
अतःपरमलङ्कारा वक्ष्यन्ते सह लक्षणैः।
तत्र शब्दार्थसंबन्धानुभयोल्लासितानपि । ९० ॥
सम्यगेकत्र संक्षिप्य लिखामि मधुराक्षरम् ।
अपन्हुतिस्समासोक्तिरुपमा दीपकं क्रमः ॥ ९१ ॥
विशेषो रूपकं जातिरुत्प्रेक्षा व्याजवर्णनम् ।
अप्रस्तुतस्तुतिस्साम्यमेकावलिविभावने ।। ९२ ॥
आक्षेपव्यतिरेकौ च श्लेषोऽर्थान्तरमेव च।
पर्यायोक्तं विरोधश्च सङ्कीर्णं रसवत्तथा ॥ ९३ ॥
अतिशयोक्तिरत्युक्तिर्वक्रोक्तिर्ध्वनिरेव च ।
अन्योन्यमनुमानं च सचित्रं यमकं तथा ॥ ९४ ॥
एते त्रिंशदलङ्कारा निर्दिष्टा रसकोविदैः ।
व्यावर्णनीयं प्रच्छाद्य यत्रान्यत्किञ्चिदुच्यते ॥ ९५ ॥
पृष्ठम्:साहित्यसारः.pdf/27
पुटमेतत् सुपुष्टितम्
१८
साहित्यसरे