पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/37

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यम्। ६९. कृतकृत्यो भवेद्विद्वान् जीवन्मुक्तैो भवेन्सदा । अस्मिन्यरूडभावस्तु जमदेतन्न वीक्षते। ५६ ॥ कदाचिद्वयवहारेषु द्वैत यद्यपि पश्यति । बोधात्मव्यतिरेकेण न पश्यति चिदन्वयात्। ५७ ॥ य इति ! सर्वन्न परिपूर्णपरमानन्दाद्वयब्रह्मरूपं अात्मानं साक्षात्कुर्वतः सर्वानन्दानां ब्रह्मानन्द एवान्नर्मावादाप्तश्यान्तरं नास्ति । ‘यस्मिन्विज्ञाते सर्वमिदै विज्ञातै स्यादिति' ज्ञातव्यान्तरमपि नास्नील्येनः कृतकृल्यो भवतीत्यर्थः । कृतकृत्ये भवेदित्यस्य विवरणं जीवन्मुक्तो भवेदिति । सदेति - सदा समाधिकाले तदितरंभिक्षाठनदिध्यवहारकाले चेल्यर्थ: । अन्यथा जीवन्मुक्तत्वम्य ज्ञानात्पूर्वकाले विदेडकैवल्यकाले चाभावेन विरोधात् । अत एव समाधिकाले तदितरभिक्षाटनादिव्यवहारकाले द्वैतदर्शनेऽपि तस्य मिथ्यावेनैव दर्शनान्न जीवन्मुतनाया विरोध इति दर्शयति - कदाचिदिति । बद्धजनसाधारणद्वैतदर्शनमङ्गीकरोति--द्वैतं यद्यपि पश्यतीति । तर्हि बद्धजनात्को विशेष इल्यत आह-बोधात्मेति । बद्धजनः सर्वदा द्वैत पश्यति । विद्वांस्तु कदाचित्समाधिव्यतिरितकाल एव, इत्येकी विशेषः । अपरस्तु, बद्धजनो बोधात्मव्यतिरेकेण द्वैतं सल्यतया पश्यति , विद्वांस्तु सत्यतया न पश्यति । तत्र हेतुः-चिदन्वपादिति । सर्वत्र प्रपञ्चे चित एव सत्ताप्रदवेनानुष्यूतत्वज्ञानादित्यर्थः ॥ ५७ ॥ विद्वान् द्वैतं सल्यतया न पश्यतीत्युक्तं, कर्थं पुनः पश्यतील्याद्दकिं तु पश्यति मिथ्यैव दिङ्मोहेन्दुविभागवत् । किन्त्वति । शुद्धाद्वितीयब्रह्मणः प्रपञ्चाकारत्वस्य मिथ्यात्वे दृष्टान्तमाई-दिङ्मोहेति । प्राच्यादीनां प्रतीच्यादिप्रतिपत्तिवदित्यर्थ: । एकस्यैव जझणो देवतियेअनुयादिरूपेण मेदस्य मिथ्यावे दृष्टान्तमाह- इन्द्विति ।