पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/9

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ पञ्चीकरणम् ॥ (श्रीमच्छंकरभगवत्पादाचार्यप्रणीतम्) अथातः परमहँसानां समाधिविधि व्याख्यास्याम: । ओों सच्छब्दवाच्यमविद्याशबले ब्रह्म । ब्रह्मणोऽव्यतम् । अव्यक्तात् महत् । महतोऽहृंकारः । अहङ्कारात्पञ्चतन्मात्राणि । पश्चतन्मात्रेभ्यः पञ्चमहाभूतानि ! पश्चमहानुभूतेभ्योऽखिलं जगत् ॥ पश्वानों भूतानामेकैक द्विधा विभज्य स्वाधभार्ग विहायार्धभाग चतुर्धा विभज्येतरेषु योजिते पश्वीकरण मायारूपदर्शन। अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपश्वद्यते । ओों पञ्चीकृतपञ्चमहाभूतानि तत्कार्यै सर्वे विराडित्युच्यते । एतत्स्थूलशरीरमात्मनः। इन्द्रियैरथोपलब्धिर्जागरितम्।। एतदुभयाभिमान्यात्मा विश्वः । एतत्त्रयमकारः ॥ अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्राणि, तत्कार्ये च पश्चप्राणाः दशेन्द्रियाणि मनो बुद्धिश्चेति सप्तदशकं लिङ्गं भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्स्रुक्ष्मशरीरमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः सविषयः स्वम इत्युच्यते । तदुभयाभिमान्यात्मा तैजसः । एतत्त्वयमुकारः ॥